आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 75, कुल 232 में से
संदर्भ में पढ़ें५६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः नीरुजं संवत्सरमयनं वा परिशीलितैः शृङ्गाराभ्रकलक्ष्मीविला- साद्यभ्रसत्त्वप्रधानप्रयोगैरिति भावः ॥ उक्तं च ।— मृताभ्रं भक्षयेन्मासमेकमादौ विचक्षणः । पश्चात्तं योजयेद्देहे क्षेत्रीकरणमिच्छतः ॥ ४४२ ॥ इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्गरसैः । क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ॥ ४४३ ॥ घनसत्त्वपादजीर्णोऽर्धकान्तजीर्णश्च तीक्ष्णजीर्णश्च । क्षेत्रीकरणाय रसः प्रयुज्यते भूय आरोटः ॥ ४४४ ॥ योऽग्निसहत्वं प्राप्तः संजातो हेमतारकर्ता च । बद्धो रसश्च भुक्तो विधिना सिद्धिप्रदो भवति ॥ ४४५ ॥ अथ रसभक्षणकालः । प्रभाते भक्षयेत्सूतं पथ्यं यामद्वयाधिके । नोल्लङ्घयेत्त्रियामं तु मध्याह्ने चैव भोजयेत् ॥ ४४६ ॥ ताम्बूलान्तर्गते सूते विड्बन्धो नैव जायते । सकणाममृतां भुक्त्वा मलबन्धे स्वपेन्निशि ॥ ४४७ ॥ अथ रसमात्राप्रमितिः— वल्लमेकं नरेऽश्वे तु गद्याणैकं गजे द्वयम् । सर्वरोगविनाशार्थं भिषक् सूतं प्रयोजयेत् ॥ ४४८ ॥ मतान्तरम्— घनसत्त्वकान्तकाञ्चीशङ्करतीक्ष्णाआदिजीर्णस्य । सूतस्य गुञ्जवृद्ध्या माषकमात्रं परा मात्रा ॥ ४४९ ॥ शिवः— गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् । द्विगुणं तारजीर्णस्य रविजीर्णस्य च त्रयम् ॥ ४५० ॥ १ 'नैव भोजयेत्' क. ख. ।