आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 74, कुल 232 में से
संदर्भ में पढ़ें१. ] आयुर्वेदप्रकाशः । ५५ अथ पारदसेवनविधिं व्याख्यास्यामः । क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् । विधिना पथ्यविधानादमरदेहतुल्यदेहः स्यात् ॥ ४३३ ॥ अक्षेत्रीकरणे सति रसायनं यो नरः प्रयुञ्जीत । तस्य क्रामति न रसः सर्वाङ्गोपक्रुद्भवति ॥ ४३४ ॥ अक्षेत्रीकरणे सूतोऽप्यमृतोऽपि विषं भवेत् । फलसिद्धिः कुतस्तस्य सुबीजस्योपरि यथा ॥ ४३५ ॥ कर्तव्यं क्षेत्रकरणं सर्वसिद्धौ रसायने । नाक्षेत्रकरणाद्देवि किंचिकुर्याद्रसायनम् ॥ ४३६ ॥ अथ नित्यनाथः— पञ्चकर्म पुरा कृत्वा पश्चात्सकलदेहिनाम् । योजनीयो रसो दिव्यः शीघ्रं सिद्धिमवाप्नुयात् ॥ ४३७ ॥ नवज्वरेऽतिसारे च गर्भिण्यां बालवृद्धयोः । न कुर्यात्पञ्चकर्माणि रक्तस्रावं च दाहनम् ॥ ४३८ ॥ पाचनं स्नेहनं स्वेदं वमनं रेचनं तथा । एतानि पञ्चकर्माणि ज्ञातव्यानि भिषग्वरैः ॥ ४३९ ॥ अमृतं च विषं प्रोक्तं शिवेन च रसायनम् । पञ्चकर्मभयत्रस्तैः सुकुमारैर्नरैरिह । रेचनान्ते इदं सेव्यं सर्वदोषापनुत्तये ॥ ४४० ॥ अथान्यच्च ।— स्निग्धस्विन्नविरिक्तं यन्नीरुजं सिद्धभेषजैः । एतत्क्षेत्रं समासेन रसबीजार्पणक्षमम् ॥ ४४१ ॥ स्निग्धं प्रातस्त्रिदिनं घृतसैन्धवपानेन, स्विन्नं वस्त्रादिपुटस्वे- दिना, विरिक्तमिच्छाभेदि नाराचादिसेवनेन, पलाशबीज- न्तुघ्नगुडमोदकभक्षणेन कीटपातनमपि कर्तव्यं, सिद्धभेषजै-