आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 78, कुल 232 में से
संदर्भ में पढ़ें१. ] आयुर्वेदप्रकाशः । ५९ आत्मज्ञानं कथा पूजा शिवस्य च विशेषतः । एतांस्तु समयान्भद्रे न लङ्घेद्रेसभक्षणे ॥ ४७३ ॥ अथ रसवाग्भटे ।— (सांधितं पारदं शृङ्गदन्तवेण्वादिधारितम् । अर्चयित्वा यथाशक्ति देवगोब्राह्मणानपि ॥ ४७४ ॥ पर्णखण्डे धृतं सूतं जग्ध्वा तदनुपानतः । घृतसैन्धवधान्याकजीरकार्द्रकसंयुतम् ॥ ४७५ ॥ तण्डुलीयकधान्याकपटोलालावुकादिकम् । कुस्तुम्बरी मरीचानि सैन्धवं समभागिकम् ॥ ४७६ ॥ व्यञ्जनार्थं कृतं भोज्ये रससेवक उत्तमम् ।) गोधूमजीर्णशाल्यन्नं गव्यं क्षीरं घृतं दधि ॥ ४७७ ॥ हंसोदकं मुद्गयूषः पथ्यवर्गः प्रकीर्तितः । बृहतीबिल्वकूष्माण्डं वेत्राग्रं कारवेल्लकम् ॥ ४७८ ॥ माषं मसूरं निष्पावान् कुलत्थ सर्षपांस्तिलान् । बन्धनोद्वर्तनस्नानताम्रचूडसुरासवान् ॥ ४७९ ॥ आनूपमांसधान्याम्लं भोजनं कदलीदले । कांस्ये च गुरु विष्टम्भी तीक्ष्णोष्णं च भृशं त्यजेत् । निषिद्धं वर्ज्य मतिमान्विचित्ररसभुग्भवेत् ॥ ४८० ॥ स्रवति न यथा रसेन्द्रो न च नश्यति जाठरो वह्निः॥४८१ अथाज्ञानादशोधितपारदभक्षणे तद्विपशमनोपायमाह— यद्यज्ञानात्कथमपि नागादिकलङ्कितो रसो भुक्तः । तत्स्रावणाय विज्ञः पिवेच्छिफां कारवेल्लिभवाम् ॥ ४८२ ॥ अथ रसाजीर्णे शमनोपायमाह— रसाजीर्णे महाव्याधीन् लक्षयेद्भिषगुत्तमः । अभ्यङ्गमनिलक्षोभे तैलैर्नारायणादिभिः ॥ ४८३ ॥ १ () एतच्चिह्नान्तर्गतः पाठः ख. गः पुस्तकयोर्नोपलभ्यते ।