आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 80, कुल 232 में से
संदर्भ में पढ़ें१.] आयुर्वेदप्रकाशः । ६१ पुष्पजातं फलं सर्वं मधुरं मांसशर्करम् । पाकयुक्तमशीर्णं च श्रेष्ठमुक्तं रसायने ॥ ४९४ ॥ असिताया सवत्सायाः प्राहुर्दुग्धं जलैः शृतम् । बलवृद्धिकरं वृष्यं श्रेष्ठमुक्तं रसायने ॥ ४९५ ॥ गव्यं सुदुग्धं सलिलार्थकेन संपाच्य तत्क्षीणजलं सुशीतम् । खण्डेन वा शर्करया समेतं रसेन्द्रभोक्ता प्रपिबेत्सदेव ॥४९६॥ दिव्यान्तरिक्षं धौनिजं च कौपं स्वयंविशीर्णाद्रिशिलातलोद्भवम् । तडागजं सारसमौद्भिदं यत्तोयं मतं त्वष्टविधं मनोरमम् ॥४९७ अक्षारं स्वादु मृष्टं दिनमणिकिरणैर्वासरे तप्तमादौ रात्रौ शीतांशुरोचिस्त्रिविधसुपवनान्दोलितं दोषहीनम् । कर्पूरै राजचम्पैरतिशयविमलैः पाटलैलासुपुष्पै- स्त्वग्धान्यैर्वासितं यद्वरशिशिरजलं मृतसेवी पिवेत्॥४९८॥ श्रीनारायणसंज्ञकेन च बलातैलेन चान्येन वा कार्यं मर्दनकोविदै रसभुजां मल्लैः सदा मर्दनम् । चातुर्जातलवङ्गकुङ्कुमनिशामुस्तासुमांसीभवै- श्चूर्णैर्मृष्टमसूरमुद्गयवजैरुद्वर्तनं कारयेत् ॥ ४९९ ॥ सौख्योष्णैः सलिलैर्द्रुतं रसभुजां स्नानं सुजीर्णेऽशने वातं पित्तकफौ निहन्ति बलकृत्त्वग्वर्णकृद्बृंहणम् । रूपद्योतिकरं मनःप्रशमनं कामस्य संवर्धनं नारीणां च मनोहरं श्रमहरं देहे रसक्रामणम् ॥ ५०० ॥ अथ देहसिद्धिदानन्यानपि रसेन्द्रप्रयोगान् व्याचक्ष्महे । श्लोकद्वयं तत्र प्रागध्येतव्यं मृतपरीक्षार्थं; यथा— कचकचिति न दन्ताग्रे कुर्वन्ति समानि केतकीरजसा । योग्यानि हि प्रयोगे रसोपरसलोहचूर्णानि ॥ ५०१ ॥
१ 'पाकयुक्तमजीर्णं' ख. । २ 'अकृष्णाया' ग. । ३ धौनिजं नादेयम् । ६