आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 86, कुल 232 में से
संदर्भ में पढ़ें२.] आयुर्वेदप्रकाशः । ६७ पौष्टिकं वल्यमायुष्यं पुत्रप्रसवकारणम् । चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम् ॥ ५४५ ॥ इति चतुर्मुखरसः ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायमाधवविरचितायुर्वेद- प्रकाशे सूतसाधनाध्यायः प्रथमः समाप्तः ॥ १ ॥ अथ द्वितीयोऽध्यायः । अथोपरसाः कथ्यन्ते । गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोञ्जनं टङ्कणं राजावर्तकचुम्बकौ च स्फटिका शङ्खः खटी गैरिकम् । कासीसं रसकं कपर्दसिकतावोलाश्च कङ्गुष्ठकं सौराष्ट्री च मता अमी उपरसाः सूतस्य किंचिद्गुणैः ॥ तुल्याः स्युर्यदि ते विशोध्य विधिना संसाधिताः सेविता- स्तत्तद्रोगहरानुपानसहितैर्यौगैश्चिरायुःप्रदाः ॥ १ ॥ अथादौ गन्धकोत्पत्तिं प्रकारं शोधनस्य च । नामलक्षणसंयुक्तं वक्तुमर्हसि शङ्कर ॥ २ ॥ ईश्वर उवाच ।— श्वेतद्वीपे पुरा देवि तीरे क्षीरपयोनिधेः । क्रीडन्त्याः सखिभिः सार्धमभवत् प्रसृतं रजः ॥ ३ ॥ बहुलं तद्रजोऽतीव सुगन्धि सुमनोहरम् । क्षीरार्णवे तु स्नाताया दुकूलं रजसान्वितम् ॥ ४ ॥ धौतं यत् सखिभिस्तत्र तज्जातं गन्धकं रजः । क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् ॥ ५ ॥ निजगन्धेन तान् सर्वान् हर्षयन् देवदानवान् । ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ॥ ६ ॥ १ ‘हर्षयामास दानवान्’ ग. ।