आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 87, कुल 232 में से
संदर्भ में पढ़ें६८ आयुर्वेदीयग्रन्थमाला। [ अध्यायः रसस्य बन्धनार्थाय जारणाय भवत्वयम् । ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति ॥ ७ ॥ इत्ययं गन्धको नाम विख्यातः क्षितिमण्डले । बलिना सेवितः पूर्वं प्रभूतबलहेतवे ॥ ८ ॥ वासुकिं कर्षतस्तस्य तन्मुखज्वालया द्रुता । वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः ॥ ९ ॥ गन्धकत्वं च संप्राप्ता तस्माद्वलिवसा स्मृता । अथ गन्धकनामानि । गन्धको गन्धिकश्चापि गन्धपाषाण इत्यपि । सौगन्धिकश्च कथितो बलिर्बलिवसाऽपि च ॥ १० ॥ अथ गन्धकस्वरूपम् । चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः । रक्तो हेमक्रियासूक्तः शुकतुण्डनिभो वरः ॥ ११ ॥ पीतश्चामलसाराख्यः श्रेष्ठो रसरसायने । श्वेतोऽत्र खटिका प्रोक्ता लेपने लोहमारणे । *, लेपने व्रणादिलेपने ॥ अथ शुद्धगन्धकगुणाः कथ्यन्ते— दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥ १२ ॥ गन्धाश्माऽतिरसायनः समधुरो ह्युष्णो विपाके कटुः कण्डूकुष्ठविसर्पदद्रुदलनः संदीपनः पाचनः । आमोन्मोचनशोषणो विषहरः सूतेन्द्रवीर्यप्रदो गौरीपुष्पभवस्तथा कृमिहरः सत्त्वात्मकः सूतजित् ॥१३ अन्यच्च— गन्धकः कटुकस्तिक्तो वीर्योष्णस्तुवरः सरः । पित्तलः कटुकः पाके कण्डूवीसर्पजन्तुजित् । हन्ति कुष्ठं क्षयं प्लीहकफवातान् रसायनः ॥ १४ ॥