आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 91, कुल 232 में से
संदर्भ में पढ़ें७२ आयुर्वेदियग्रन्थमाला । [ अध्यायः वल्लेन प्रमितं शुद्धं सूतेन्द्रं च विमर्दयेत् । अङ्गुल्या च सपत्रां तां द्रुतिं सूतं च भक्षयेत् ॥ ३९ ॥ करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् । कासं श्वासं च शूलार्तिं ग्रहणीमपि दुर्धराम् । आमं विनाशयत्याशु लघुत्वं प्रकरोति च ॥ ४० ॥ इति षष्ठो गन्धककल्पः ॥ अन्यच्च— शुद्धो बलिर्गोपयसा त्रिंवारं ततश्चतुर्जातगुडूचिकाङ्घ्रिः । पथ्याक्षधात्र्यौषधभृङ्गनीरैर्भाव्योऽष्टवारं पृथगार्द्रकेण ॥ ४१ ॥ सिद्धे सितां योजय तुल्यभागां रसायनं गन्धकसंज्ञितं स्यात् । धातुक्षयं मेहगणाग्निमान्द्यं शूलं तथा कोष्ठगतांश्च रोगान्॥४२ कुष्ठान्यथाष्टादश रोगसंघान्निवारयत्येव च राजरोगम् । कर्षोन्मिते सेवित एति मर्त्यो वीर्यं च पुष्टिं बलमग्निदीप्तिम्॥४३ वमनै रेचनैः पूर्वं देहशुद्धिं समाचरेत् । जाङ्गलानि तु मांसानि छागलानि प्रयोजयेत् ॥ ४४ ॥ लवणाम्लानि शाकानि द्विदलानि तथैव च । स्त्रियश्चारोहणं यानं सदा चैतानि वर्जयेत् ॥ ४५ ॥ इति सप्तमः सर्वोत्तमो गन्धकरसायनकल्पः ॥ वातारितैलसंयुक्तस्त्रिफलाकौशिकेन तु । गन्धको रससंयुक्तो जराव्याधिविनाशनः ॥ ४६ ॥ मासमात्रप्रयोगेन शृणु वक्ष्यामि तद्गुणान् । अर्शो भगन्दरश्चैव तथा श्लेष्मसमुद्भवाः ॥ ४७ ॥ नश्यन्ति व्याधयः सर्वे मासेनेकेन गन्धकात् । षण्मासस्य प्रयोगेण देवतुल्यो भवेन्नरः ॥ ४८ ॥ १ ‘विशोषयत्याशु’ ग. । २ ‘विभाव्यः’ ग. । ३ ‘गन्धकसंज्ञकं’ ग. ।