आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 90, कुल 232 में से
संदर्भ में पढ़ें२. ] आयुर्वेदप्रकाशः । ७१ अथ गन्धकतैलम् ।— आवर्त्यमाने पयसि दद्याद्गन्धकजं रजः । तज्जातदधिजं सर्पिर्गन्धतैलं नियच्छति ॥ ३२ ॥ गन्धतैलं गलत्कुष्ठं हन्ति लेपाच्च भक्षणात् । चूर्णीकृत्य पलानि पञ्च नितरां गन्धाश्मनो यत्नत- स्तच्चूर्णं त्रिगुणे तु मार्कवरसे छायाविशुष्कीकृतम् । यत्स्याच्चूर्णमथाभयामधुघृतं प्रत्येकमेषां पलं वृद्धो यौवनमेति मासयुगलं खादन्नरः प्रत्यहम् ॥३३॥ इति तृतीयो गन्धककल्पः ॥ यो गन्धाश्म विचूर्णितं पिबति ना तैलेन कर्षोन्मितं नित्यं चोष्णजलावसेचनरतः काले यथा प्रत्यहम् । सप्ताहत्रितयान्निहन्ति सकलाः पामादिसर्वा रुजो नित्याभ्यासवशाद्विनष्टसकलक्लेशोपतापः पुमान् ॥३४॥ इति चतुर्थो गन्धककल्पः ॥ यो वाऽप्युग्रमतिः सुचूर्णितमिदं गन्धाश्म कृष्णासमं पथ्यातुल्पमपि प्रपूजितगुरुर्भूतेशपूजारतः । आहारादिषु यन्त्रणादिरहितः स्यात् पुष्टिवीर्याधिकः प्रोत्फुल्लाम्बुजनेत्रयुग्मविलसच्चामीकराभासुरः ॥ ३५ ॥ इति पञ्चमो गन्धककल्पः ॥ कलांशव्योषसंयुक्तं शुद्धगन्धं विचूर्णितम् । अरत्निमात्रे वस्त्रे तद्विप्रकीर्य विवेष्टयेत् ॥ ३६ ॥ सूत्रेण वेष्टयित्वाऽथ यामं तैले निमज्जयेत् । धृत्वा संदंशतो वर्तिं मध्ये प्रज्वालयेच्च ताम् ॥ ३७ ॥ द्रुतो निपतितो गन्धो बिन्दुशः काचभाजने । तां द्रुतिं प्रक्षिपेत्पत्रे नागवल्ल्यास्त्रिबिन्दुकाम् ॥ ३८ ॥