आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 89, कुल 232 में से
संदर्भ में पढ़ें७० आयुर्वेदीयग्रन्थमाला । [अध्यायः अथास्य कूर्म्मपुटेन शोधनं विशदं यथा— साज्यभाण्डे पयः क्षित्वा मुखं वस्त्रेण बन्धयेत् । गन्धकं पृष्ठदेशे तु श्लक्ष्णचूर्णितमर्पयेत् ॥ छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् ॥ २४ ॥ सन्धिरोधः प्रकर्त्तव्यो भाण्डखर्परयोर्मृदा । भाण्डं निक्षिप्य भूगर्त्ते किंचिद्रक्षेद्बहिर्मुखम् ॥ २५ ॥ ज्वालयेत्खर्परस्योर्ध्वं जातवेदं वनोपलैः । ततः क्षीरे द्रुतं गन्धं शीतं धौतं जलेन तु ॥ २६ ॥ वस्त्रघृष्टं निर्जलं तु शुद्धं योगेषु योजयेत् । मतान्तरम्— गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति । सप्तधैवं भक्षणार्थं योगार्थं सकृदेव तु ॥ २७ ॥ इति शुद्धो हि गन्धाश्मा नापथ्यैर्विकृतिं व्रजेत् । अपथ्यादन्यथा हन्यात्पीतं हालाहलं यथा ॥ २८ ॥ अथ गन्धककल्पार्थं गन्धकगन्धनाशनप्रकारः— विचूर्ण्य गन्धकं क्षीरे घनीभावावधिं पचेत् । ततः सूर्यावर्त्तरसं पुनर्दत्त्वा पचेच्छनैः ॥ २९ ॥ पश्चाच्च पातयेत् प्राज्ञो जले त्रैफलसंभवे । जहाति गन्धको गन्धं निजं नास्तीह संशयः ॥ ३० ॥ अथ गन्धकसेवनप्रकाराः । इत्थं विशुद्धस्त्रिफलाज्यभृङ्गमध्वन्वितः शाणमितो हि लीढः । गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः॥३१ अत्र पथ्यं तु दुग्धोदनम् । इति गन्धककल्पः ॥ शुद्धो गन्धो निष्कमात्रः सदुग्धः सेव्यो मासं शौर्य्यवीर्य्यप्रवृद्ध्यै । षण्मासात्स्यात्सर्व्वरोगप्रणाशो दिव्या दृष्टिर्दीर्घमायुः सुरूपम् ३२ इति द्वितीयो गन्धककल्पः ॥