बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 125, कुल 486 में से
संदर्भ में पढ़ेंदशमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ७३
इदानीं मूर्खब्राह्मणातिक्रमे दोषो नाऽस्तीत्याह— 'ब्राह्मणातिक्रमो नास्ति मूर्खे मन्त्रविवर्जिते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ २८ ॥
अनु०—मूर्ख, मन्त्रों के ज्ञान से शून्य (केवल जन्मना ब्राह्मण के घर में उत्पन्न) ब्राह्मण की उपेक्षा करने में दोष नहीं होता, क्योंकि यज्ञ में जलती हुई अग्नि को छोड़कर भस्म में हवन नहीं किया जाता ॥ २८ ॥
मूर्खलक्षणमुक्तं 'शाखातिगस्मृतो मूर्खः' (१. १०. ८) इत्यत्र । तथा च वसिष्ठः— 'यस्य चैव गृहे मूर्खो दूरे च स्याद् बहुश्रुतः । बहुश्रुताय दातव्यं मूर्खे नाऽस्ति व्यतिक्रमः ॥ २८ ॥ ^३गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया । कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः ॥ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ॥ २९ ॥ कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ ३० ॥
अनु०—मन्त्रों के ज्ञान से हीन जो कुल होते हैं वे गाय-बैल, अश्व और यान रखने से, कृषि कर्म करने से तथा राजा के यहाँ सेवा कार्य करने से अकुलता को प्राप्त होते हैं । मन्त्रों से समृद्ध कुल स्वल्पधन होकर भी कुल गिने जायेंगें और बड़ी कीर्ति अर्जित करेंगे ॥ २९–३० ॥
किञ्च— गोभिरश्वैश्चेत्यत्र संव्यवहारेणेत्यध्याहार्यम् ॥ २९-३० ॥
१. श्लोकोऽयं सदृशानुपूर्विक एव वासिष्ठे दृश्यते. See. व. ध. ३. ११. एवमेव लघुशातातपोऽपि. See. लघुशातातप. श्लो० ७७. । २. लघुशातातप also. ७६. ३. कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः । गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् । कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि । कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ इति मनौ See मनु० ३. ६३–६६.