भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 176, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 176

३२४ बौधायन-धर्मसूत्रम् [वर्णधर्मविचारः

पुल्कसान्निषाद्यां जातस्य कुक्कुटसंज्ञेत्यर्थः। अनेनैतद्विज्ञातं भवति—प्रतिलोमानुलोमेन स्त्रियां जातोऽपि प्रतिलोम एवेति। अन्यथा कथमेवमर्धं-क्ष्यत् ॥ ८—१२ ॥

अथ बीजोत्कर्षवशात् वर्णान्तरप्राप्तिमाह— निषादेन निषाद्यामा पञ्चमाज्जातोऽपहन्ति शूद्रताम् ॥ १३ ॥

अनु०—निषाद पुरुष निषाद स्त्री से विवाह करे तो उसके वंश में पाँचवें पुरुष में शूद्रत्व समाप्त हो जाता है ॥ १३ ॥

अत्र गौतमीयम्—'वर्णान्तरगमनमुत्कर्षापकर्षाभ्यां सप्तमेन । पञ्चमेनाऽऽचार्याः' इति। नाङ्ग तत्राऽभिविधौ। निषादो वैश्याच्छूद्रायां जात इति कृत्वोच्यते ॥ १३ ॥

तमुपनयेत्षष्ठं याजयेत्सप्तमोऽविकृतो भवति$^१$ ॥ १४ ॥ इति बोधायनधर्मसूत्रे प्रथमप्रश्ने षोडशः खण्डः ॥ १६ ॥

अनु०--पाँचवें पुरुष का उपनयन करे, छठें से यज्ञ कराये तो सातवाँ दोषरहित होता है ॥ १४ ॥

टि०—द्रष्टव्य मनु० १०: ५-४२

अविकृतः नैजमेव वर्णं प्रतिपद्यत इत्यर्थः। एवं तावच्छूद्रायां वैश्याज्जा-तस्याऽऽसप्तमाद्वैश्यत्वापत्तिरुक्ता। एवमेव वैश्यायां जातस्य क्षत्रियत्वापत्तिः। तथा क्षत्रियायां जातस्य ब्राह्मण्यापत्तिरुच्यते—सवर्णत्यागादपि वर्णसङ्करो जायत इतीदं प्रदर्शयितुम्। आह च मनुः— व्यभिचारेण वर्णानामवेद्यावेदनेन च। स्वकर्मणां च त्यागेन जायते वर्णसङ्करः॥ इति। स्वकर्मणां त्याग उपनयनादिसंस्कारहानिरधिकृते। अतो वर्णसङ्करप्रदर्श-नार्थत्वादुपपन्नमिहाभिधानम् ॥ १४ ॥

इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्नेऽष्टमोऽध्यायः ॥ ८ ॥


१. See. मनु १०. ५—४२.

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद) · पृष्ठ 176, कुल 486 में से · BharatKosha