बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 192, कुल 486 में से
संदर्भ में पढ़ें१४० | बौधायन-धर्मसूत्रम् | [ विवाहाः
एकादशोऽध्यायः
विंशः खण्डः
'साक्षिणः पुत्रिणः' ( १९. १६. ) इत्युक्तम् । केनोपायेन पुत्रिणो भवन्ती- त्येतत्प्रसङ्गेन विवाहानामवतारः— 'अष्टौ विवाहाः ॥ १ ॥
अनु०—आठ प्रकार के विवाह कहे गये हैं ॥ १ ॥
उच्यन्त इति शेषः । नियमार्थमष्टग्रहणम् । ततश्च वक्ष्यमाणब्राह्मादिनियम- धर्मलङ्घननिमित्तवर्णसङ्करो भवतीत्येतदर्थात्सूचितं भवतीति ॥ १ ॥
तत्राऽऽह— श्रुतिशीले विज्ञाय ब्रह्मचारिणेऽर्थिने कन्या दीयते स ब्राह्मः ॥२॥
अनु०—जब वेद के विद्वान् व्यक्ति को, जिसके श्रुतिशील होने का ज्ञान प्राप्त कर लिया गया हो, जो ब्रह्मचर्य व्रत का पालन कर रहा हो और जिसने विवाहार्थ कन्या की याचना की हो, कन्या प्रदान की जाती है तब वह ब्राह्म नाम का विवाह होता है ॥ २ ॥
अयमाद्यो धर्मविवाहः । श्रुतं वेदार्थज्ञानं, शीलं सर्वसहिष्णुता । ब्रह्मचारी उपकुर्वाणोऽस्कन्नरेताश्च । कन्या अक्षतयोनिः । आह च मनुः—
आच्छाद्य चाऽऽर्चयित्वा च श्रुतशीलवते स्वयम् । आहूय दानं कन्यायाः ब्राह्मो धर्मः प्रकीर्तितः ॥ इति ॥ २ ॥
आच्छाद्याऽलङ्कृत्यै "षा सहधर्मं चर्यता" मिति प्राजापत्यः ॥३॥
अनु०—जब पिता कन्या को वस्त्रों से आच्छादित कर तथा आभूषणों से अल- ङ्कृत कर 'यह तुम्हारी भार्या है, इसके साथ धर्मों का आचरण करो' ऐसा कहकर प्रदान करता है तो प्राजापत्य नाम का विवाह होता है ॥ ३ ॥
आच्छादनालङ्करणे कन्याया एव । वरस्याऽप्येके । "एषा" इत्यादिमन्त्रः । एषा ते भार्या । त्वदीयो द्रव्यसाध्यो धर्मोऽनया सह चर्यतामिति मन्त्रार्थः । एष प्राजापत्यो नाम द्वितीयः ॥ ३ ॥
तृतीयस्तु— पूर्वां लाजाहुतिं हुत्वा गोमिथुनं कन्यावते दत्त्वा ग्रहणमार्षः ॥४॥
१. ब्राह्मो प्राजापत्यं आसुरे पैशाचं चाऽन्तर्भाव्य षडेव विवाहान् कथयत्यापस्त- म्बाचार्यः । See आप. ध. २.१२–१७ ।