बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 262, कुल 486 में से
संदर्भ में पढ़ें| २१० | बौधायन-धर्मसूत्रम् | [स्नातकधर्माः |
|---|
**अनु०—**अथवा अनेक अभ्यागतों में जो पहले आया हो उसे ही भोजन करावे ॥ १३ ॥
आगतानां बहूनां मध्ये यः प्रथमं प्राप्तस्तं भोजयेदिति ॥ १३ ॥
शूद्रश्चेदागतस्तं कर्मणि नियुञ्ज्यात् ॥ १४ ॥
**अनु०—**यदि कोई शूद्र अभ्यागत हो तो उसे किसी कार्य पर लगावे ( और फिर बाद में भोजन दे )
ततस्तं भोजयेदिति शेषः । द्विजातीनां तु विद्यातपसी एव भोजयितुं पर्याप्ते । शूद्रस्य त्वभ्यागतस्य तदसम्भवात्तत्स्थाने कर्मकरणम् । ततश्च निर्गुणे द्विजादावभ्यागते तमपि कर्मणि नियुञ्ज्यादित्युक्तं भवति । युक्तं चैतत्, वसिष्ठवचनात् —'अश्रोत्रिया अननुवाक्याः अनग्नयश्शूद्रसधर्माण भवन्ति' इति । आचार्योऽपि वक्ष्यति —'कामं तान् धार्मिको राजा शूद्रकर्मसु योजयेत्' ( २. ७. १५ ) इति । कर्म च काष्ठभेदनमृत्तिकासान्द्रीकरणादि ॥ १४ ॥
श्रोत्रियाय वाऽग्रं दद्यात् ॥ १५ ॥
**अनु०—**यदि अनेक व्यक्तियों को भोजन देने में असमर्थ हो तो एक श्रोत्रिय विद्वान् ब्राह्मण को अग्र प्रदान करे ॥ १५ ॥
**टि०—**अग्र सोलह ग्रास के बराबर अन्न को कहते हैं ।
यदि बहूनां न शक्नुयात् इत्यनुवर्तते । तत्र ग्रासः—शिख्यण्डप्रमाणाश्चत्वारो ग्रासा एकैकं भैक्षम्, तच्चतुर्गुणीतं पुष्कलमित्युच्यते । तत्पुष्कलचतुष्टयं चाऽग्रम् ॥ १५ ॥
'ये नित्याभक्तिकास्स्युस्तेषामनुपरोधेन संविभागो विहितः ॥ १६ ॥
**अनु०—**जो नित्य भोजन करने वाले हैं उनके भोजन के अंश में किसी प्रकार की कमी न करते हुए भोजन का विभाग करना चाहिए ॥ १६ ॥
आसमन्तात् भक्तं आभक्तम्, नित्यं आभक्तं येषां ते नित्याभक्तिकाः, नित्यमन्नं ये भजन्ते पुत्रदारभृत्यादयः । तेषामुपरोधः पीडा, तदभावोऽनुपरोधः । संविभागो दानम् । तदुपरोधे सति न कर्तव्यम् । आह च—
भृत्यानामुपरोधेन यः करोत्यौर्ध्वदैहिकम् ।
तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च ॥ इति ॥ १६ ॥
१. "नित्या भक्तिकाः" इति सूत्रे, व्याख्यायां भक्तं अन्नं नित्यं ये भजन्ते पुत्रदारभृत्यादयः इति च पाठः क. ग. पु.