बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 301, कुल 486 में से
संदर्भ में पढ़ेंएकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २४९
तदेषाऽभिवदति — "‘ये चत्वारः पथयो देवयाना अन्तरा द्यावा-पृथिवी वियन्ति । तेषां यो अज्यानिमजीतिमावहात्तस्मै नो देवाः परिदत्तेह सर्व' इति ॥ १३ ॥
अनु०—यह निम्नलिखित ऋचा में कहा गया है—देवलोक के चार मार्ग आकाश और पृथिवी के बीच भिन्न-भिन्न ओर से जाते हैं। उन मार्गों में जो सभी निरन्तर समृद्धि प्रदान करने वाला मार्ग हो उसे देवता हमें प्रदान करें । (तैत्तिरीय सं० ५.७.२.३) ॥ १३ ॥
तत्कर्मचातुर्विध्यमृगेषाऽभिवदति । कथम् ? ऋषिर्वामदेवः त्रिष्टुप्छन्दः नवसस्यानि देवता । 'अज्यानिहोमे तदुपधाने च विनियोगः । य इमे चत्वारः पथयः पन्थानः देवो देवलोकः । भोमो भोमसेन इतिवत् तद्गमनहेतवः । ऐष्टिकादयः द्यावापृथिव्योरन्तरा मध्ये वियन्ति विविधं गच्छन्ति विदिता इत्यर्थः । तेषामिति 'कर्मणि षष्ठी । तानि अज्यानिमजीतिं क्रियाविशेषणे । अज्यानि अहानि अविगुणं अजीतिं मह्यं य आवहात् आवहेत् अनुतिष्ठेत् । तस्मै नः अस्माकं मध्ये सस्यानि हे सर्वे देवाः परिदत्त प्रयच्छत श्रौतकर्मानुष्ठाने निःश्रेयसं दत्तेति मन्त्रार्थः । तदेतदैकाश्रम्ये सत्युपपद्यते । नाऽऽश्रमचातुर्विध्ये । कथम् ? तदाहि गृहस्थ एव स्यात् । तत्र च गृहस्थो वैदिकैः कर्मभिरधिक्रियते नेतरे । तदेतदैकाश्रम्ये उपपन्नं भवति । ननु भेदपक्षेऽपि गृहस्थो वैदिकानि करोत्येव । सत्यं, अल्पविषयत्वं तदा शास्त्रस्य स्यात् । सर्वाधिकारं चेदं कर्मशास्त्रं विना कारणेन न बाधितुं युक्तम् ।
किञ्च—बहुद्रव्यव्ययप्रयाससाध्यं कर्मजातं परित्यज्य पारिव्राज्यकान्येवाऽऽस्कन्देयुः पुरुषाः । यतस्तेनाऽपि निःश्रेयसं लभन्ते । ‘अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्' इति न्यायात् । ततश्च प्रत्यक्षश्रुतानामग्निहोत्रादिवाक्यानामप्रामाण्यमेवाऽऽपद्येत । तस्मादेषां चातुर्विध्यमेषाऽभिवदतीत्युपगन्तव्यम् ॥
अमुमेवार्थमध्यायपरिसमाप्तेः पूर्वोत्तरपक्षभङ्ग्या प्रदर्शयितुमाश्रमचातुर्विध्यं तावदुपपन्यस्यति स्म—
ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजक इति ॥ १४ ॥
अनु०—ब्रह्मचारी, गृहस्थ, वानप्रस्थ और परिव्राजक इस प्रकार चार आश्रम होते हैं ॥ १४ ॥
१. इयं तैत्तिरीयशाखागतमन्त्रानुपूर्वी See तै. सं. ५.७.२.३. २. अज्यानिसंज्ञकाः केचनेष्टकाविशेषाः चयने उपधेयाः ।