बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 304, कुल 486 में से
संदर्भ में पढ़ें२५२ बौधायन-धर्मसूत्रम् [ संन्यासिसधर्मा:
परिव्राजका: स्युरिति शेषः। कौपीनमाच्छादनं येषामिति 'कृत्यल्युटो बहु- लम्' इति कर्मणि ल्युट् । कुत्सितमाच्छादनं कौपीनमिति वैयाकरणाः। सोऽयं व्यञ्जनप्रदेशे उक्तः। तथा च गौतमः—'कौपोनाच्छादनार्थं वासो बिभृयात्प्रही- णमेके निर्णिज्य' इति ॥ २१ ॥
वर्षास्वेकस्थः ॥ २२ ॥
अनु०—वर्षा काल में केवल एक स्थान पर निवास करे ॥ २२ ॥
वर्षा नाम ऋतुः । तस्मिन्नेकस्मिन्नेव देशे तिष्ठेत् । 'ध्रुवशीलो वर्षासु' इति गौतमः॥ २२ ॥
'कौपीनाच्छादनाः' इत्युक्तं, तत्राह—
काषायवासाः ॥ २३ ॥
अनु०—काषाय रंग का वस्त्र धारण करे ॥ २३ ॥
कषायेण रक्तं काषायम् ॥ २३ ॥
अथ भिक्षाकालमाह—
सन्नमुसले व्यङ्गारे निवृत्तशरावसम्पाते भिक्षेत ॥ २४ ॥
अनु०—जब मूसल चलने बन्द हो गये हों, और चूल्हें की आग बुझ गयी हो तथा भोजन के बर्तनों की सफाई की जा चुकी हो तब भिक्षा के लिए निकले ॥ २४॥
सन्नं मुसलं यस्मिन् काले निवृत्तमुसलव्यापारे इति यावत् । व्यङ्गारे विग- ताःशान्ता अङ्गारा यस्मिन् । शरावो भोजनपात्रोपलक्षणार्थः । सम्पातस्सम्मा- र्जनं उच्च्छिष्ठावमार्जने वृत्ते इत्यर्थः । एतैर्विशेषणैरपराह्न उपलक्ष्यते । आह च—
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ इति ॥ २४ ॥
वाङ्मनःकर्मदण्डैर्भूतानामद्रोही ॥ २५ ॥
अनु०—वाणी, मन और कर्म पर नियन्त्रण रखे और प्राणियों को किसी प्रकार कष्ट न पहुंचाये ॥ २५ ॥
दण्डो दमनादित्याहः—वागादिभिर्भूतानि न दमयेत् । अभयं सर्वभूतेभ्यो दद्यादिति यावत् ॥ २५ ॥
पवित्रं बिभृयाच्छौचार्थम् ॥ २६ ॥
अनु०—जल छानने के लिए पवित्र साथ रखे ॥ २६ ॥
पवित्रं कुशमुष्टिः पञ्चमुष्टिर्वा जलपवित्रं बिभ्रद्वर्त्तेति शेषः । तद्धरणं चाऽऽत्मशुद्ध्यर्थं देहादेशाद्धाऽर्जन्तूनां शोभनार्थम् ॥ २६ ॥