बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 306, कुल 486 में से
संदर्भ में पढ़ें२५४ बौधायन-धर्मसूत्रम् [ गार्हस्थ्यप्रशंसा
'तस्मात्प्रजननं परमं वदन्ति' इत्येवमादिना । तथा 'यावज्जीवं जुहुयात्,' 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' 'तं यज्ञपात्रैर्दहन्ति' इति च । नन्वितरेषामपि प्रत्यक्षश्रुतिविधानमस्ति । तथा च छान्दोग्ये धर्मस्कन्धश्रुतिः- 'त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलावासी तृतीयः' इति । तपश्शब्देनाऽत्र तापसपरिव्राजकयोर्ग्रह्णम् । सत्यं- यद्यत्र विधिप्रत्ययोऽस्ति स तावन्नास्ति । नाऽप्यध्याहारः' अनुपपत्तेरभावात् । प्रणवस्य स्तुत्यर्थत्वात्तेषामुपादानस्य । तस्मादेकाश्रम्यमेव साधीयः । अपि च अप्रजननत्वादितरेषाम् । प्रजननमत्र पुत्रोत्पत्तिः । सा चेतरेषां नाऽस्ति । तथा चाऽवश्यं भवितव्यमित्युक्तं 'प्रजातन्तुम्' इत्यादि श्रुतिदर्शनेनेत्याह ॥ २९ ॥
यदि न श्रुतिप्रभवा इतरे त्रय आश्रमाः किंप्रभवास्तर्हि ? रागद्वेषादिमत्पुरुषबुद्धिप्रभवा इत्याह—
तत्रोदाहरन्ति—प्राह्लादिर्ह वै कपिलो नामाऽसुर आस । स एतान्भेदांश्चकार देवैस्सह स्पर्धमानस्तान् मनीषी नाऽऽद्रियेत ॥ ३० ॥
अनु०—इस सम्बन्ध में यह उद्धृत किया जाता है कि प्रह्लाद का पुत्र कपिल नामक एक असुर था । उसने देवों के साथ स्पर्धा करते हुए इन आश्रम-भेदों की रचना की । बुद्धिमान् व्यक्ति को चाहिए कि इन आश्रम-भेदों का आदर न करे ॥ ३० ॥
टि०—इस संबंध में गौतमधर्मसूत्र में चारों आश्रमों का उल्लेख कर कहा गया है । 'तेषां गृहस्थो' योनिरप्रजनत्वादितरेषाम् अर्थात् इन आश्रमों में स्थित पुरुषों का गृहस्थाश्रम ही उत्पत्तिस्थान है, क्योंकि गृहस्थाश्रम के अतिरिक्त अन्य आश्रमों में सन्तानोत्पत्ति की व्यवस्था नहीं है । ( गौ० ध० १।३। पृष्ठ ३० )
सैषा श्रौतगार्हस्थ्यस्य प्रशंसा स्मार्त्तेतराश्रमाभावादेव । प्रह्लादस्यापत्यं प्राह्लादिः । भेदान् आश्रमाणाम् । देवस्पर्धयाऽसुरेण यस्मात्कृता आश्रमभेदाः तस्मात् तान् मनीषी नाऽऽद्रियेत । मनीषी मनस्वी प्राज्ञ इत्यनर्थान्तरम् ॥ ३० ॥
अदृष्टत्वात् । "ये चत्वार" इति कर्मवाद ऐष्टिकपाशुकसौमिकदार्वाहोमानाम् ॥ ३१ ॥
अनु०—"ये चत्वार" आदि का कोई अन्य अर्थ स्पष्ट न होने से वहाँ इष्टि-प्रधान, पशुयज्ञ, सोमयज्ञ तथा दार्वीहोम इन चार प्रकार के यज्ञकर्मों का ही अर्थ लेना चाहिए ॥ ३१ ॥
निगमनार्थः पुनरुपन्यासः । अतोऽप्रजननत्वादितरेषां प्रत्यक्षश्रुतिविधाना-