बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 428, कुल 486 में से
संदर्भ में पढ़ें| ३७४ | बौधायन-धर्मसूत्रम् | [ विविधप्रायश्चित्तानि |
|---|
दार्विहोमिकमित्यत्राऽऽज्यसंस्कारमात्रं न पुनस्थालीपाकप्रयोगोऽपि। प्रयताञ्जलिः सम्पुटिताञ्जलिः क्वातिर्यङ्ङनाऽत्यन्ताभिमुखो नाऽपि पृष्ठतः कुर्वन्। उक्तमेतत् 'क्वातिर्यङ्ङवोपतिष्ठेत् नैनं प्रत्यङ् न पराङ्' इति। अभिमन्त्रणमभिवीक्ष्याऽभिवदनं, त्रिषत्या हि देवा इति विज्ञायते ॥ १०,११ ॥
योऽपूत इव मन्येत आत्मानमुपपातकैः ।
स हुत्वैतेन विधिना सर्वस्मात्पापात्प्रमुच्यते ॥ १२ ॥
अनु०—जो स्वयं को उपपातकों से दूषित-जैसा अनुभव करता हो वह इसी विधि से हवन करने पर सभी पापों से मुक्त हो जाता है ॥ १२ ॥
उपपातकंप्रायश्चित्ते कृतेऽपि मनसो यद्यलाघवं भवति तदाऽनेन प्रायश्चित्तेनाऽधिक्रियते एतेनैव विधिना सर्वस्मात्पापात्प्रमुच्यते। विधिनेत्यभिमन्त्रणान्तरमाह। वरोऽपि दक्षिणेति ॥ १२ ॥
अपि वाऽनाद्यापेयप्रतिषिद्धभोजनेषु दोषवच्च कर्म कृत्वाऽपि सन्धिपूर्वमनभिसन्धिपूर्वं वा शूद्रायां च रेतस्सिक्त्वाऽयोनौ वाऽब्लिङ्गाभिर्वारुणीभिश्चोपस्पृश्य प्रयतो भवति ॥ १३ ॥
अनु०—यदि न खाने योग्य भोजन खा लिया हो, या न पीने योग्य वस्तु पी ली हो, कोई दोषयुक्त कर्म जान बूझकर या अनजान में किया हो, शूद्रा स्त्री से मैथुनरत हुआ हो अथवा अप्राकृतिक मैथुन से वीर्यपात किया हो तो स्नान कर अब्ब्लिङ्ग और वरुण के मन्त्रों का पाठ करने पर शुद्ध हो जाता है ॥ १३ ॥
अनाद्यं केशकीटादिभिरुपहतम्। अपेयं मद्यम्, मद्यभाण्डस्थितोदकादि। प्रतिषिद्धभोजनं चिकित्सकादिभोजनम्, दोषवत्कर्म अभिचारादि। शूद्रायां योढा द्विजातिभिः। चशब्दात्सवर्णामपि चलितायाम्। अयोनः खट्-वादि। चशब्दाद्रोगाद्युपहतायां स्वभार्यायामपि। पर्वणि के चिदिच्छन्ति। एतेषु निमित्तेषु पूर्वोक्तं प्रायश्चित्तम् ॥ १३ ॥
उपदर्शनायैतदेव परमतेन द्रढयितुमाह —
अथाप्युदाहरन्ति—
अनाद्यप्राशनापेयप्रतिषिद्धभोजनेऽ ¹विशुद्धधर्माचरिते च कर्मणि।
मतिप्रवृत्तोऽपि च पातकोपमैः विशुद्ध्यतेऽथाऽपि च सर्वपातकैः ॥ १४ ॥
१. विरुद्धधर्माचरिते इति क. पु.