बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
| ३७४ | बौधायन-धर्मसूत्रम् | [ विविधप्रायश्चित्तानि |
|---|
दार्विहोमिकमित्यत्राऽऽज्यसंस्कारमात्रं न पुनस्थालीपाकप्रयोगोऽपि। प्रयताञ्जलिः सम्पुटिताञ्जलिः क्वातिर्यङ्ङनाऽत्यन्ताभिमुखो नाऽपि पृष्ठतः कुर्वन्। उक्तमेतत् 'क्वातिर्यङ्ङवोपतिष्ठेत् नैनं प्रत्यङ् न पराङ्' इति। अभिमन्त्रणमभिवीक्ष्याऽभिवदनं, त्रिषत्या हि देवा इति विज्ञायते ॥ १०,११ ॥
योऽपूत इव मन्येत आत्मानमुपपातकैः ।
स हुत्वैतेन विधिना सर्वस्मात्पापात्प्रमुच्यते ॥ १२ ॥
अनु०—जो स्वयं को उपपातकों से दूषित-जैसा अनुभव करता हो वह इसी विधि से हवन करने पर सभी पापों से मुक्त हो जाता है ॥ १२ ॥
उपपातकंप्रायश्चित्ते कृतेऽपि मनसो यद्यलाघवं भवति तदाऽनेन प्रायश्चित्तेनाऽधिक्रियते एतेनैव विधिना सर्वस्मात्पापात्प्रमुच्यते। विधिनेत्यभिमन्त्रणान्तरमाह। वरोऽपि दक्षिणेति ॥ १२ ॥
अपि वाऽनाद्यापेयप्रतिषिद्धभोजनेषु दोषवच्च कर्म कृत्वाऽपि सन्धिपूर्वमनभिसन्धिपूर्वं वा शूद्रायां च रेतस्सिक्त्वाऽयोनौ वाऽब्लिङ्गाभिर्वारुणीभिश्चोपस्पृश्य प्रयतो भवति ॥ १३ ॥
अनु०—यदि न खाने योग्य भोजन खा लिया हो, या न पीने योग्य वस्तु पी ली हो, कोई दोषयुक्त कर्म जान बूझकर या अनजान में किया हो, शूद्रा स्त्री से मैथुनरत हुआ हो अथवा अप्राकृतिक मैथुन से वीर्यपात किया हो तो स्नान कर अब्ब्लिङ्ग और वरुण के मन्त्रों का पाठ करने पर शुद्ध हो जाता है ॥ १३ ॥
अनाद्यं केशकीटादिभिरुपहतम्। अपेयं मद्यम्, मद्यभाण्डस्थितोदकादि। प्रतिषिद्धभोजनं चिकित्सकादिभोजनम्, दोषवत्कर्म अभिचारादि। शूद्रायां योढा द्विजातिभिः। चशब्दात्सवर्णामपि चलितायाम्। अयोनः खट्-वादि। चशब्दाद्रोगाद्युपहतायां स्वभार्यायामपि। पर्वणि के चिदिच्छन्ति। एतेषु निमित्तेषु पूर्वोक्तं प्रायश्चित्तम् ॥ १३ ॥
उपदर्शनायैतदेव परमतेन द्रढयितुमाह —
अथाप्युदाहरन्ति—
अनाद्यप्राशनापेयप्रतिषिद्धभोजनेऽ ¹विशुद्धधर्माचरिते च कर्मणि।
मतिप्रवृत्तोऽपि च पातकोपमैः विशुद्ध्यतेऽथाऽपि च सर्वपातकैः ॥ १४ ॥
१. विरुद्धधर्माचरिते इति क. पु.
द्वितीयः खण्डः ] चतुर्थप्रश्ने द्वितीयोऽध्यायः ३७५
द्वितीयः खण्डः ] चतुर्थप्रश्ने द्वितीयोऽध्यायः ३७५
अनु०— यहाँ निम्नलिखित उद्धृत करते हैं—
न खाने योग्य अन्न खा लेने पर, अपेय पदार्थ का पानकर लेने पर अथवा निषिद्ध अन्न खाने पर, निषिद्ध कर्म करने पर या प्रतिषिद्ध क्रिया का अनुष्ठान करने पर, जान बूझकर भी पातकों के समान दोषों से और सभी पातकों से भी शुद्धि हो जाती है ॥ १४ ॥
अविशुद्धधर्माचरिते इति पदच्छेदः। छद्मना चरित इत्यर्थः। पातकोपमानि 'अनृतं च समुत्कर्षवति' इत्येवमादीन्येकविंशतिः। सर्वपातकरिति प्रशंसा-र्थमुक्तम्। न पुनः प्रायश्चित्तमेतत् ॥ १४ ॥
त्रिरात्रं वाऽप्युपवसन् त्रिरह्नोऽभ्युपेयादपः ।
प्राणानात्मनि संयम्य त्रिः पठेद्घमर्षणम् ॥ १५ ॥
अनु०— तीन दिन और तीन रात्रि उपवास करे, दिन में तीन बार स्नान करे और प्राणवायु को रोक कर तीन बार अघमर्षण मन्त्र का जप करे ॥ १५ ॥
अनन्तरोक्तेन विकल्पः। त्रिरात्रं त्रिषवणं स्नानम् ॥ १५ ॥
एतस्यैव विशेष उच्यते —
'यथाऽश्वमेधावभृथ एवं तन्मनुरब्रवीत् ॥ १६ ॥
अनु०— जिस प्रकार अश्वमेध यज्ञ के अन्त का अवभृथ स्नान होता है उसी प्रकार उपर्युक्त प्राणायाम और अघमर्षण मन्त्र का जप भी है ॥ १६ ॥
विज्ञायते च—
^२चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं तरेमेति ॥ १७ ॥
इति चतुर्थप्रश्ने द्वितीयः खण्डः ॥
अनु०— ऐसा ज्ञात है—यह अघमर्षण सूक्त पाप को हटाने वाला, पवित्र करने वाला, विस्तीर्ण और प्राचीन है। उस पवित्र और शुद्ध करने वाले अघमर्षण सूक्त से पवित्र होकर हम भी अपने शत्रु पाप को जीते ॥ १७ ॥
चरणं चलनं पापस्य पवित्रं पवनहेतुः विततं विस्तीर्णं सर्वशास्त्रेषु पुराणं पुरातनं तदेतदघमर्षणसूक्तम् । तदावेष्टयति—येन सूक्तेन पूतो मनुष्यस्तरति दुष्कृतानि पपानि। वयमपि तेन पूताः पाप्मानं शत्रुमत्तितरमेति प्रार्थना ॥ १६ ॥ १७ ॥
इति चतुर्थप्रश्ने द्वितीयोऽध्यायः ॥
१ See मनु. १२. २० ९. : ६०.
२. महानारायणोपनिषदि पठितोऽयं मन्त्रः See. तै. आ. १०. ११
३७६ | बौधायनधर्मसूत्रम् | [ रहस्यप्रायश्चित्तानि
चतुर्थप्रश्ने तृतीयोऽध्यायः
तृतीयः खण्डः
अधुना रहस्यप्रायश्चित्तान्याह—
प्रायश्चित्तानि वक्ष्यामोऽविख्यातानि विशेषतः ।
समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥ १ ॥
**अनु०—**अब हम विशेषतः उन प्रायश्चित्तों का विवेचन करेंगे जो अविख्यात हैं और हम यह बतायेंगे कि अपने कर्त्तव्य में तत्पर रहने वाले व्यक्तियों के प्रमाद का प्रायश्चित्त किस प्रकार हो ॥ १ ॥
अविख्यातानि अविख्यातदोषाणि । यावता विना यत्पापं कर्तुं न शक्यते तद्रूपतिरिक्तम् अविख्यातदोषमुच्यते । यद्वा—अविख्यातानि अन्यैर्धर्मशास्त्रकारैरदृष्टानि । अथवा—प्रायश्चित्तान्येव अविख्यातानि अन्यैः पुरुषैः । आत्मन इवाऽस्मिन् पुरुषे निमित्ते सत्येतत्प्रायश्चित्तमित्यनवगतानि । अत एव—विशेषतः विशिष्टपुरुषाणां विदुषामित्यर्थः । तानेव विशिनष्टि—समाहितानामिति । समाहिता अविक्षिप्तचित्ताः, युक्ताश्शास्त्रचोदितेषु कर्मसु निरताः । प्रमादेषु अबुद्धिपूर्वककृतेषु । तथा च वसिष्ठः—
आहिताग्नेर्विनीतस्य वृद्धस्य विदुषश्च यत् ।
रहस्योक्त प्रायश्चित्तं पूर्वोक्तमितरस्य तु ॥
कथं भवेदित्याशङ्कायां वक्ष्याम इति शेष ॥ १ ॥
ॐपूर्वाभिर्व्याहृतीभिस्सर्वाभिस्सर्वपातकेष्वाचामेत् ॥ २ ॥
**अनु०—**पहले ओंकार का उच्चारण करते हुए तथा सभी व्याहृतियों का उच्चारण करते हुए सभी पातकों को दूर करने के लिए आचमन करें ॥ २ ॥
प्रतिव्याहृति प्रणवसम्बन्धः कर्तव्यः । एकैकया वा आचमनम् । ततः परिमार्जनं चक्षुराद्युपस्पर्शनं च ॥ २ ॥
एवं विशिष्टं प्रशस्याऽऽचमनं अवयवशः प्रशंसितुमाह—
यत्प्रथममाचामति तेनर्ग्वेदं प्रीणाति, यद्द्वितीयं तेन यजुर्वेदं, यत्तृतीयं तेन सामवेदम् ॥ ३ ॥ यत्प्रथमं परिमाष्टि तेनाऽथर्ववेदं यद्द्वितीयं तेनेतिहासपुराणम् ॥ यत्सव्यं पाणिं प्रोक्षति पादौ शिरो हृदयं नासिके चक्षुषी श्रोत्रे नाभिं चोपस्पृशति तेनौषधिवनस्पतयः सर्वाश्च देवताः प्रीणाति तस्मादाचमनादेव सर्वस्मात्पापात्प्रमुच्यते ॥ ५ ॥
तृतीयः खण्डः ] चतुर्थप्रश्ने तृतीयोऽध्यायः ३७७
तृतीयः खण्डः ] चतुर्थप्रश्ने तृतीयोऽध्यायः ३७७
अनु०—पहली बार आचमन करने पर ऋग्वेद को प्रसन्न करता है, दूसरी बार आचमन करने पर यजुर्वेद को और तीसरी बार आचमन करने पर सामवेद को प्रसन्न करता है । पहली बार ओठों को पोछने पर अथर्ववेद को प्रसन्न करता है, दूसरी बार पोंछने पर इतिहास-पुराण को प्रसन्न करता है । जब बायें हाथ को पोंछता है, पैर, सिर, हृदय, नासिका, दोनों नेत्रों, दोनों कानों, नाभि का स्पर्श करता है, उससे ओषधियों, वनस्पतियों, सभी देवों को प्रसन्न करता है, इस कारण आचमन द्वारा ही वह सभी पापों से मुक्त हो जाता है ॥ ३-५ ॥
'इतिहासपुराणं पञ्चमं वेदानां वेदम्' इति श्रुतिः। ऋग्वेदाद्यभिमानिन्यो देवताः प्रीता भवन्त्याचमननेनैवाप्नोति ताः देवताः। ननु कथमेतदाचमनं भवति ? नाऽयं पर्यनुयोगस्य विषयः, नहि वचनस्याऽतिभारोऽस्तीत्युक्तत्वात् । यथाऽऽस्यगतेन सुराविन्दुना पतितः, न पयोविन्दुना, तदपि हि वचनावगम्यमेव, तस्माददोषः ॥ ४ ॥
अष्टौ वा समिध आदध्यात्—"देवकृतस्यैनसोऽवयजनमसि स्वाहा मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा। पितृकृतस्यैनसोऽवयजनमसि स्वाहा। आत्मकृतस्यैनसोऽवयजनमसि स्वाहा। यद्दिवा च नक्तं चैनश्चकृम तस्याऽवयजनमसि स्वाहा। यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्याऽवयजनमसि स्वाहा। यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्याऽवयजनमसि स्वाहा। एनस एनसोऽवयजनमसि स्वाहे"ति ॥ ६॥ एतैरष्टाभिर्हुत्वा सर्वस्मात्पापात्प्रमुच्यते ॥ ७ ॥
अनु०—अथवा निम्नलिखित आठ मन्त्रों से अग्नि पर आठ समिध् रखे तुम देवों के पापों को दूर करने वाले हो, स्वाहा। मनुष्य कृत पाप को दूर करने वाले हो, स्वाहा ! पितृकृत पाप को दूर करने वाले हो, स्वाहा। मेरे किए हुए पाप को दूर करनेवाले हो, स्वाहा। मैंने दिन में और रात में जो पाप किए है उसको दूर करनेवाले हो स्वाहा। मैंने सोते हुए, जागते हुए जो पाप किए हैं उस को दूर करनेवाले होस्वाहा। मैंने जानबूझकर और अनजाने में जो पाप किया है उसको तुम दूर करने वाले हो, स्वाहा। तुम प्रत्येक पाप को दूर करने वाले हो, स्वाहा। इन आठ मन्त्रों से हवन कर सभी पापों से मुक्त हो जाता है ॥ ६-७ ॥
अवयजनं निरसनम् ॥ ६, ७ ॥
१. महानारायणोपनिषद्गता इमेऽष्टौ मन्त्राः। अत्रापि द्राविडपाठ एव स्वीकृतस्सूत्रकारेण See. तै. आ, १०. ५९. ॥
| ३०८ | बौधायन-धर्मसूत्रम् | [महादोषनाशकरमन्त्रप्रतीकाः |
|---|
अथाऽप्युदाहरन्ति—
अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः । कूष्माण्ड्यः पावमान्यश्च विरजा मृत्युलाङ्गलम् । दुर्गा व्याहृतयो रुद्रा महादोषविनाशना महादोषविनाशना इति ॥ ८ ॥
इति चतुर्थप्रश्ने तृतीयः खण्डः ॥
**अनु०—**यहाँ निम्नलिखित उद्धृत करते हैं—
अघमर्षण, देवकृत, शुद्धवती, तरत्समा, कूष्माण्डी, पावमानी, विरजा, मृत्युलाङ्गल, दुर्गा, ( 'जातवेदसे' आदि तैत्तिरीय आरण्यक १०.१.११ ), व्याहृतियाँ, 'नमस्ते रुद्र' आदि एकादश अनुवाक—ये सभी महादोष को नष्ट करने वाले होते हैं ॥ ८ ॥
**टि०—**जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः । तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ तै० आ० १०.१११.
अघमर्षणं 'ऋतं च सत्यं च' इत्यादि । विरजाः ^२'प्राणापान' इत्यादि-विरजाशब्दवन्तोऽष्टावनुवाकाः । मृत्युलाङ्गलं 'वेदाहमेतम्' इति द्वितीयः पाठः । दुर्गा^३ 'जातवेदसे इ'त्येषा । 'कात्यायनाय'^४ इति च । रुद्राः 'नमस्ते रुद्र' इत्येकादशाऽनुवाकाः । अन्यत्प्रसिद्धम् । महादोषाः महापातकानि ॥८॥
इति गोविन्दस्वामिकृते बौधायनीयधर्मसूत्रविवरणे
चतुर्थप्रश्ने तृतीयोऽध्यायः ॥
१. See P. 167 ।
२. 'प्राणापान' इत्यादयोऽनुवाकास्सप्त २६० पृष्ठे टिप्पण्यां लिखिताः । अनन्तरोऽनुवाकः "उत्तिष्ठ पुरुष हरी लोहित पिङ्गलाक्षि देहि देहि ददापयित्वा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास९ स्वाहा" इत्यष्टमः ( तै. आर. १० द्राविड-पाठे. ६०, ) ।
३. जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ ( तै० आ० १०.१.११ )
४. कात्यायनाय विद्महे कन्याकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् ॥ ( तै० आ० १०.१.७ ) ।
चतुर्थः खण्डः ] चतुर्थप्रश्ने चतुर्थोऽध्यायः ३७९
चतुर्थः खण्डः ] चतुर्थप्रश्ने चतुर्थोऽध्यायः ३७९
चतुर्थोऽध्यायः
चतुर्थः खण्डः
प्रायश्चित्तानि वक्ष्यामोऽविख्यातानि विशेषतः ।
समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥
**अनु०—**अब हम विशेषतः उन प्रायश्चित्तों का विवेचन करेंगे जो अविख्यात हैं और यह बतायेंगे कि अपने कर्तव्य में तत्पर रहने वाले व्यक्तियों के प्रमाद का प्रायश्चित्त किस प्रकार हो ॥ १ ॥
व्याख्यातश्श्लोकः। पुनःपाठः पूर्वोक्तानामन्यतमेनेह वक्ष्यमाणानामन्यतमस्य समुच्चयार्थः ॥ १ ॥
“ऋतं च सत्यं चे”त्येतदघमर्षणं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते ॥ २ ॥
**अनु०—**जो व्यक्ति जल में खड़ा होकर तीन बार 'ऋतं च सत्यं च' इत्यादि अघमर्षण मन्त्रों का जप करता है वह सभी पापों से मुक्त हो जाता है ॥ २ ॥
यथाविध्यधीयीत ऋष्यादिज्ञानपूर्वकमिति, तथोत्तरेष्वपि मन्त्रेषु द्रष्टव्यम् । अघमर्षणानामानुष्टुभं वृत्तम् ॥ २ ॥
^१ “आयं गौः पृश्निरक्रमी” दित्येतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते ॥ ३ ॥
**अनु०—**जो व्यक्ति जल में खड़ा होकर तीन बार “आयं गौः पृश्निरक्रमी दसन्दन्मातरं पुनः । पितरं च प्रयन्त्सुवः” ( तैत्तिरीय संहिता १.५.३ ) पाठ करता है वह सभी पापों से मुक्त हो जाता है ॥ ३ ॥
सर्पराजार्षं गायत्रं सूर्य आत्मा देवता ॥ ३ ॥
^२ “द्रुपदादिवेन्मुमुचान” इत्येतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते ॥ ४ ॥
१. आयं गौः पृश्निरक्रमीदसन्दन्मातरं पुनः । पितरं च प्रयन्त्सुवः ॥ ( तै० सं० १.५.३. ) ।
२. द्रुपदादिवेन्मुमुचानः । स्विन्नस्स्नात्वी मलादिव । पूतं पवित्रेणेवाऽज्यमापश्शुन्धन्तु मैनसः ॥
| ३८० | बौधायन-धर्मसूत्रम् | [अविज्ञातप्रायश्चित्तानि |
|---|
अनु०— जो व्यक्ति जल में खड़ा होकर तीन बार "द्रुपदादिवेन्मुमुचानः । स्विन्नस्स्नात्वी मलादिव । पूतं पवित्रेणेवाऽज्यमापश्शुन्धन्तु मैनसः" पाठ करता है वह सभी पापों से मुक्त हो जाता है ॥ ४ ॥
वामदेवः काण्डर्षिर्वा अनुष्टुप्छन्दः आपो देवता ॥ ४ ॥
$^३$"हँसश्शुचिष दि"त्येतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते ॥ ५ ॥
अनु०— जो व्यक्ति जल में खड़ा होकर तीन बार "हंसश्शुचिषदसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसहत सद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् (तैत्तिरीय संहिता, ४.२.१) पाठ करता है वह सभी पापों से मुक्त हो जाता है ॥ ५ ॥
वामदेवजगतौसूर्या ऋषिच्छन्दोदेवताः ॥ ५ ॥
अपि वा सावित्रीं गायत्रीं पच्छोऽर्द्धर्चशस्ततः समस्तामित्येतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते ॥ ६ ॥
अनु०— जो जल में खड़ा होकर सवितृ देवता के गायत्री मन्त्र के प्रत्येक चरण का अलग-अलग, अर्द्धर्च-अर्द्धर्च का अलग-अलग और फिर सम्पूर्ण मन्त्र का तीन बार पाठ करता है वह सभी पापों से मुक्त हो जाता है ॥ ६ ॥
विश्वामित्रार्षं गायत्रीच्छन्दस्सविर्तो देवता ॥ ६ ॥
अपि वा व्याहृतीर्व्यस्ताः समस्ताश्चेति त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते ॥ ७ ॥ अपि वा प्रणवमेव त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते ॥ ८ ॥
अनु०— जो व्यक्ति जल में खड़ा होकर तीन बार व्याहृतियों का अलग-अलग और एक साथ उच्चारण करता है वह सभी पापों से मुक्त हो जाता है ॥ ७ ॥
अनु०— जो व्यक्ति जल में खड़ा होकर ओंकार का ही तीन बार उच्चारण करता है वह सभी पापों से मुक्त हो जाता है ॥ ८ ॥
विवृते एते च सूत्रे ॥ ७, ८ ॥
३. हंसश्शुचिषदसुरन्तरिक्षमद्धोता वेदिषदतिथिर्दु'रोणसत् । नृषद्वरसद्दतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ ( तै० सं० ४. २, १ ) ।
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३८१
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३८१
अधुना च शास्त्रसम्बन्धसम्प्रदायनियमं करोति—
तदेतद्धर्मशास्त्रं नाऽभक्ताय नाऽपुत्राय नाऽशिष्याय नाऽसंवत्सरो- षित्वाय दद्यात् ॥ ९ ॥
अनु०—इस धर्म शास्त्र का उपदेश श्रद्धाहीन व्यक्ति को, पुत्र से भिन्न व्यक्ति को, शिष्य से भिन्न व्यक्ति को, और एक वर्ष से कम समय तक साथ में निवास करने वाले व्यक्ति को नहीं देना चाहिए ॥ ९ ॥
स तु शिष्यो भवति यमुपनीय वेदमध्यापयति । अन्योऽपि पुत्रात् शिष्यः यो धर्मशास्त्रसङ्ग्रहार्थं संवत्सरावमं शुश्रूषापुरस्सरमुषितवान् स संवत्सरोषितः, तस्मै ॥ ९ ॥
अथैतदन्यद्विधीयते—
सहस्रं दक्षिणा ऋषभैकादशं गुरुप्रसादो वा गुरुप्रसादो वा ॥ १० ॥
इति चतुर्थप्रश्ने चतुर्थः खण्डः ॥
अनु०—इस शास्त्र के उपदेश की दक्षिणा एक सहस्र पण अथवा दस गायें और एक साँड़ है अथवा गुरु की सेवा मात्र ही दक्षिणा होती है ॥ १० ॥
धर्मशास्त्रोपदेष्ट्रे सहस्रं शतस्वर्णं वा ऋषभैकादशं वेत्यध्याहारः । ऋषभ एकादशो भवति यस्य गोगणस्येति विग्रहः । विनयापेक्षया शक्त्यपेक्षया वा विकल्पः । गुरुप्रसादो वा अकस्मादेव यस्मिंश्चित्तप्रसादो भवति दद्यादेव तस्मै ॥ १० ॥
इति चतुर्थप्रश्ने चतुर्थोऽध्यायः ॥
चतुर्थप्रश्ने पञ्चमोऽध्यायः
पञ्चमः खण्डः
एवं तावत्पुरुषार्थतया जपहोमेष्टिमन्त्राणि प्रायश्चित्तान्युक्तानि । अथेदानीं क्रत्वर्थतया, तानि चात्र शुद्धयर्थतया वक्तव्यानि । तेषां च सारूप्यमित्यत आह—
अथाऽतस्संप्रवक्ष्यामि सामर्ग्यजुरथर्वणाम् ।
कर्मभिर्यैरवाप्नोति क्षिप्रं कामान् मनोगतान् ॥
| ३८२ | बौधायन-धर्मसूत्रम् | [शीघ्रफलदायककर्माणि |
|---|
¹जपहोमेष्टियन्त्राद्यैः शोधयित्वा स्वविग्रहम् ।
साधयेत्सर्वकर्माणि नाऽन्यथा सिद्धिमश्नुते ॥ २ ॥
अनु०—अब मैं साम, ऋक्, यजु और अथर्वण से संबद्ध जिन कर्मों से मनुष्य शीघ्र अपने मन की इच्छाओं को कर सकता है, उन कर्मों का विवेचन करूँगा ॥१॥
अनु०—जप, होम, इष्टि, संयम के अभ्यास आदि द्वारा अपने शरीर को पवित्र कर सभी कर्मों को सम्पन्न करे, अन्यथा अपने प्रयोजन में सिद्धि नहीं प्राप्त कर सकता ॥ २ ॥
अथशब्द आनन्तर्ये प्रकाशरहस्यप्रायश्चित्तानन्तरम् । यद्वा—मङ्गलार्थवाची, यस्मान्मङ्गलवाक्यानि जपादीनि अतस्तानि सम्प्रवक्ष्यामि । तानि विशि-नष्टि--यैः जपादिभिश्रुद्धोऽनुष्ठितैः सामवेदादिविहितैः कर्मभिर्मनोगतान-भिप्रेतान् कामान् फलान्यवाप्नोतीति ॥ १, २ ॥
एवं पापविशेषं समुदाहृत्य यद्विधीयते तत्रैवमुक्तम् । कर्माथी जपादि चिकीर्षोर्नियमानाह त्रिभिश्लोकैः—
जपहोमेष्टियन्त्राणि करिष्यन्नादितो द्विजः ।
शुक्लपुण्यदिनर्क्षेषु केशश्मश्रूणि वापयेत् ॥ ३ ॥
स्नायात्त्रिषवणं पायादात्मानं क्रोधतोऽनृतात् ।
स्त्रीशूद्रैर्नाऽभिभाषेत ब्रह्मचारी हविर्व्रतः ॥ ३ ॥
गोविप्रपितृदेवेभ्यो नमस्कुर्वन् दिवाऽस्वपन् ।
जपहोमेष्टियन्त्रस्थो दिवास्थानो निशासनः ॥ ५ ॥
अनु०—जो द्विज जप, होम, इष्ट और इन्द्रियादि के संयम का अभ्यास करने के लिए तैयारी कर रहा हो, वह सबसे पहले शुक्ल पक्ष में किसी शुभ दिन को शुभ नक्षत्र में केशों और दाढ़ी-मूँछ की मुँड़ा डाले ॥ ३-५ ॥
अनु०—वह व्यक्ति प्रातः, मध्याह्न और सायंकाल तीनों सवनों में स्नान करे; क्रोध और असत्यभाषण से अपने को बचाए । स्त्रियों और शूद्रों से स्वयं संबोधित कर भाषण न करे, ब्रह्मचारी रहे और यज्ञ के योग्य हवि के अन्न का ही भोजन करे ॥ ४ ॥
अनु०—गायों, ब्राह्मणों, पितृ, देवों को नमस्कार करे और दिन में न सोये । जब तक जप, होम, इष्टि या संयम का अभ्यास करे तब तक दिन में खड़ा रहे और रात को बैठकर बिताये ॥ ५ ॥
१. श्लोकोऽयं ख. ग. पुस्तकेयोर्नाऽस्ति ।
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३८३
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३८३
जपो रुद्रैकादशिन्यादेः । होमो गणहोमादिः इष्टिः^१ मृगारादिका । यन्त्राणि यमनादिन्द्रियाणां कृच्छ्रादीन्युच्यन्ते । करिष्यन् कर्तुमध्यक्षवसितः । द्विजग्रहणं यन्त्राध्यायनिर्दिष्टेषु शूद्रपर्युदासार्थम् । शुक्ले पक्षे पुण्यदिने द्वितीयादिषु च तिथिषु पुण्येषु च ऋक्षेषु रोहिण्यादिषु । श्मश्रुग्रहणं लोमनखानामपि प्रदर्शनार्थम् । वपनं च शिखावर्जं ‘एवं भ्रूवक्षिशिखावर्जम्’ इति पर्युदासात् । यत्र पुनश्शृङ्गग्राहिकया विधीयते यथा गोघ्नप्रायश्चित्ते ‘सशिखं वपनं कृत्वा’ इति, तत्र भवति । न च शिखावपनात्कथमाचमनादि कर्तव्यमित्याशङ्कनीयम् । तस्य शास्त्रार्थत्वात्, शिरःकपालधारणवत् । त्रिश्वणं प्रातर्मध्यान्दिने सायं । क्रोधादनृताच्चाऽऽत्मानं पायाद्रक्षेत् वर्जयेदित्यर्थः । क्रोधग्रहणं हर्षलोभमोहादीनामन्येषामपि भूतदाहोयानां प्रदर्शनार्थम्, अनृतग्रहणं च पैशुन्यात्मस्तवनादीनाम् । अभिभाषण अन्यत्र यथार्थमन्तर्भवंत्येवं संवादेषु सम्भाषेत,^१) ब्रह्मचारी अप्रस्कन्दितरेताः अन्यत्र स्वप्नात् । तत्राऽपि च—
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजश्शुक्रमकामतः ।
स्नात्वाऽर्कमर्चयित्वा त्रिः^२ पुनर्मामित्यृचं जपेत् ॥
इति द्रष्टव्यम् । हविर्व्रतः ‘यदन्नैकैकं ग्रासम्’ इत्यादि, तद्विषयं क्षारलवणवर्जं व्रतयेत् । पितृग्रहणं^३ दण्डापूपिकान्यायेन मातुरप्युपलक्षणार्थम् । नमस्कारश्च कायप्रणतिपूर्वकम् । दिवाऽस्वपन् निद्रामकुर्वन् दिवास्थानः तिष्ठेदहनि । निशासनः रात्रावासीत ॥ ५ ॥
प्रथमं तावद्यन्त्राण्याह बहुवृत्तान्तत्वात्—
प्राजापत्यो भवेत्कृच्छ्रो दिवा रात्रावयाचितम् ।
क्रमशॊ वायुभक्षश्च द्वादशाहं त्र्यहं त्र्यहम् ॥ ६ ॥
१. (१) अग्नयेऽंहोमुचेऽष्टाकपाल २) इन्द्रायांहोमुच एकादशकपालो (३) मित्रावरुणाभ्यामागोगुग्भ्यां (४) पयस्या वायोसावित्र आगोगुग्भ्यां (५) चक्ररश्विभ्यामागोगुग्भ्यां (६) धाना मरुद्भ्य एनोमुग्भ्यः (७) सप्तकपालो विश्वेभ्यो देवेभ्य एनोमुग्भ्यो (८) द्वादशकपालोऽनुमत्यै चरु (९) रनये वैश्वानराय द्वादशकपालो (१०) द्यावापृथिवीभ्यामङ् होमुग्भ्यां द्विकपालः॥ ( तै. सं. ७.५.२२ ) इति विहिता दशहविष्केष्टिमृगारेष्टिरित्युच्यते । See. आप. श्रौ २०. २३. २.
तत्र प्रथमे अंहोंमुगग्निर्देवता, अष्टाकपालः पुरोडाशो द्रव्यम् । द्वितीये इन्द्रोऽहोमुक् देवता । एकादशकपालः पुरोडाशो द्रव्यम् । ‘अंहः’ पापं, तस्मात् मोचयतीत्यंहोमुक् इष्टिरियमश्वमेधप्रकरणे तदङ्गत्वेन विहिताऽपि स्वातन्त्र्येण पापक्षयार्थत्वेनाऽपि विहितत्वात् तदयं पृथगप्यनुष्ठीयते ।
| ३८४ | बौधायन-धर्मसूत्रम् | [ प्राजापत्यकृच्छ्रः |
|---|
अनु०—( प्रजापति द्वारा बताया गया या आचरित ) प्राजापत्य कृच्छ्र नाम का व्रत तीन तीन दिन क्रमशः केवल दिन में भोजन करने, केवल रात्रि में भोजन करने बिना माँगे मिले हुए अन्न का भोजन करने और कुछ भी आहार न करने पर कुल बारह दिन का होता है ॥ ६ ॥
प्राजापत्यस्तद्देवत्यस्तेन आचरितो वा । स कथं भवेदित्याह—द्वादशाहं चतुर्धा कृत्वा त्र्यहं त्र्यहं सम्पाद्य आद्ये त्र्यहे दिवाऽश्नीयात् । द्वितीये रात्रौ, तृतीये अयाचितम्, चतुर्थे वायुभक्ष इति अयाचितमिति याचनाप्रतिषेधः । एवं प्राजापत्यः कृच्छ्रः क्लेशात्मको नियमेन स्मृत्यन्तरोक्तेतिकर्तव्यताको नाऽत्र ग्राह्यः। यथा गौतमेन प्राजापत्येऽभिहितं' 'रौरवयौधाजये नित्यं प्रयुञ्जीत' इत्यादि । तद्यदि सर्वं, नित्यत्वाध्येतृच्छन्दोगव्यतिरिक्तानामधि- कारो न स्यात् । न ह्यन्यस्य सामानि सन्ति । न च प्रायश्चित्तार्थेन ग्रहणं युक्तम्, प्रतिषेधात् । स्त्रीबालादेरप्यधिकारार्थं सकलधर्मशास्त्रोक्तस्त्रिवर्णसा- धारणलक्षण एव विधिर्द्रष्टव्यः ॥ ६ ॥
अहरेकं तथा नक्तमज्ञातं वायुभक्षणम् ।
त्रिवृदेष परावृत्तो बालानां कृच्छ्र उच्यते ॥ ७ ॥
**अनु०—**यदि एक दिन केवल दिन में भोजन करे, दूसरे दिन केवल रात्रि में भोजन करे, तीसरे दिन बिना माँगे ही मिले आहार का भोजन करे और चौथे दिन निराहार केवल वायु का भक्षण कर रहे। इसी क्रम में तीन बार करने पर कुल बारह दिनों का बालकों का कृच्छ्र व्रत बताया गया है ॥ ७ ॥
अयमपि प्राजापत्यविशेष एव ॥ ७ ॥
१. सूतदाहीयाः आपस्तम्बीये धर्मसूत्रेऽध्यात्मपटले प्रसिद्धाः, तत्र द्रष्टव्याः ।
२. ऋगियं ११४ पृष्ठे टिप्पण्यां द्रष्टव्या ।
३. केनचित् पुरुषेण कस्मिंश्चिद्दण्डे बह्वीरपूपिकाः प्रोताः कृत्वा ताः क्वचिन्न्या- सीकृत्य देशान्तरं गत्वा पुनः प्रतिनिवृत्य न्यासरक्षिता पृष्टः भवदीयं दण्डं मुषिका अभक्षयन्नित्यवोचत् । तेन च निश्चितम्—यदा दाण्डोऽपि मुषिकेण भक्षितः, तदा किमु वक्तव्यं अपूपा भक्षिता इति । अयमेव दण्डापूपिकान्यायः ।
४. पुनानस्सोम धारयाऽऽपो वसानो अर्षीति ।
आरत्नधा योनिमृतस्य सदित्सुत्सो देवो हिरण्मयः ॥ १ ॥
दुहान ऊधर्दिव्यं मधुप्रियं प्रत्नंसधस्थमासदत् ।
आपृच्छयं धरुणं वाज्यर्षसि नृभिर्धोतो विचक्षणः ॥ २ ॥
( सा. सं. उ. १. १. १. )
इति ऋग्द्वयमुक्थ्यरूपेण प्रग्रथ्य तत्र गीयमाने सामनी रौरवयौधाजपसंज्ञके ।
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः २८५
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः २८५
कृच्छ्रातिकृच्छ्रस्तृतीय इति वक्ष्यति –
एकैकं ग्रासमश्नीयात्पूर्वोक्तेन त्र्यहं त्र्यहम् ।
वायुभक्षस्त्र्यहं चाऽन्यदतिकृच्छ्रस्स उच्यते ॥ ८ ॥
**अनु०—**यदि पूर्वोक्त क्रम से तीन-तीन दिन क्रमशः दिन में, और रात्रि को बिना माँगे ही मिले हुए भोजन का (मोर के अण्डे के बराबर) केवल एक ग्रास खाकर रहे और अन्त में तीन दिन वायु का आहार कर रहे, तो वह अतिकृच्छ्र नाम का दूसरा व्रत कहा जाता है ॥ ८ ॥
शिख्यण्डपरिमितान्नो ग्रासः पाणिपूरान्नो वा पूर्वोक्तेन ‘दिवा रात्रौ’ इत्यादिना । अन्यदिति प्रायश्चित्तविशेषणत्वान्नपुंसकलिङ्गमदोषः । ‘अतिकृच्छ्रोऽम्बुनाऽशनः’ इति यदा पाठस्तदोदकपानमात्रमभ्युपगच्छतीति गम्यते ॥ ८ ॥
अम्बुभक्षस्त्र्यहानेतान्वायुभक्षस्ततः परम् ।
कृच्छ्रातिकृच्छ्रस्तृतीयो विज्ञेयस्सोऽतिपावनः ॥ ९ ॥
**अनु०—**यदि तीन-तीन दिन प्रथम तीन कालों में केवल जल पीकर रहे और उसके बाद अन्तिम तीन दिन केवल वायु-भक्षण करते हुए बिताये तो वह कृच्छ्रातिकृच्छ्र नाम का अत्यन्त पावन तीसरा व्रत होता है ॥ ९ ॥
अम्बुभक्षवचनादशनधर्मेणोदकपानमिष्यते । एवमन्त्ये त्र्यहे तदपि नाऽस्तीति वायुभक्ष इत्युक्तम् । तृतीयत्वमस्य निर्देशापेक्षया¹ ‘षष्ठीं चितिम्’ इति यथा । प्रत्येकमेव शुद्धिहेतुत्वात् ॥ ९ ॥
त्र्यहं त्र्यहं पिबेदुष्णं पयस्सर्पिः कुशोदकम् ।
वायुभक्षस्त्र्यहं चाऽन्यत् तप्तकृच्छ्रस्स उच्यते ॥ १० ॥
**अनु०—**यदि तीन-तीन दिन क्रमशः उष्ण दूध, उष्ण घृत और कुश के साथ उबाले गये उष्ण जल का पान करता है तथा अन्तिम तीन दिन वायु का भक्षण कर व्रत करता है, तो वह तप्त कृच्छ्र नाम का व्रत कहलाता है ॥ १० ॥
उष्णशब्दः पय आदिभिस्त्रिभिः प्रत्येकमभिसम्बध्यते । प्रतित्र्यहं पयआदीनि क्रमेण भवेयुः । अत्र सकृदेव स्नानम् । कुत एतत् ? मनुवचनात् —
१. ‘योऽग्निं चित्वा न प्रतितिष्ठति पञ्च पूर्वाश्चितयो भवन्त्यथ षष्ठीं चितिञ्चिनुते’ इत्युक्तम् । अत्राऽस्याश्चितेः पूर्वापेक्षया भेदेऽपि पूर्वोक्तचितिपञ्चकापेक्षया षष्ठीत्वमिति पूर्वमीमांसायां पञ्चमाध्याये निर्णीतम्, तदनुसंहितमत्र ।
२८ बौ०ध०
३८६ बौधायन-धर्मसूत्रम् [ सान्तपनकृच्छ्रः
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिजान् । प्रातस्त्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः ॥ १० ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥ ११ ॥
**अनु०—**यदि एक-एक दिन क्रमशः गोमूत्र, गाय का गोबर, दूध दही, घृत, कुशोदक ग्रहण करे तथा एक दिन-रात्रि उपवास करे, तो वह सान्तपन कृच्छ्र नाम का व्रत होता है ॥ ११ ॥
साप्ताहिकोऽयं सान्तपनः। एकैकस्मिन्नहनि गोमूत्रादीनि क्रमेण भवेयुः तेषु च दधिव्यतिरिक्तानि कथिनानि कार्याणि ॥
तत्राऽयं केषां चित्पाठः—
गायत्र्या $^१$गृह्य गोमूत्रं $^२$गन्धद्वारेति गोमयम् । $^३$आप्यायस्वेति च क्षीरं $^४$दधिक्राव्णोति वै दधि ॥ $^५$शुक्रमसि ज्योतिरसीत्याज्यं $^६$देवस्य त्वा कुशोदकमिति ॥१२॥
**अनु०—**गायत्री मन्त्र का उच्चारण करते हुए गाय का मूत्र ग्रहण करे, गन्ध-द्वारां दुराधर्षां नित्यपुष्टांकरीषिणीम्। ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्' मन्त्र द्वारा गोबर ग्रहण करे।
'आप्यायस्व समेतु ते विश्वतस्तोम वृष्णियम्। भवा वाजस्य सङ्गथे। (तैत्तिरीय संहिता ३. २. ५) मन्त्र से दूध ग्रहण करें।
'दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः। सुरभिनो मुखाकरत्प्रण आयूंषि तारिषत्॥ (तैत्तिरीय संहिता १.५.११)
१. आदाय इति ग० । २. गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ३. आप्यायस्व समेतु ते विश्वतस्तोम वृष्णियम् । भवा वाजस्य सङ्गथे ॥ तै० सं० ३. २. ५. ४. दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखाकरत्प्रण आयूंषि तारिषत् ॥ तै० सं० १. ५. ११. ५. शुक्रमसि ज्योतिरसि तेजोऽसि । तै० १. १. १० ६. देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ॥
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३८७
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३८७
मन्त्र से दधि ग्रहण करे । 'शुक्रमसि ज्योतिरसि तेजोऽसि' (तैत्तिरीय संहिता १. १. १०) मन्त्र से घृत ग्रहण करे तथा 'देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्' मन्त्र से कुशोदक ग्रहण करे ॥ १२ ॥ तथा—
गोमूत्रभागस्तस्यार्धं शकृत्क्षीरस्य त्रयम् ।
द्वयं दध्नो घृतस्यैकः एकश्च कुशवारिणः ।
एवं सान्तपनः कृच्छ्रः श्वपाकमपि शोधयेत् ॥१३॥
**अनु०—**गोमूत्र का अंश जितना हो उसके आधा अंश गोबर, तीन भाग दूध, दो भाग दही, एक भाग घृत और एक भाग कुशोदक मिलावे । इस प्रकार सान्तपन नाम कृच्छ्र व्रत चण्डाल तक को भी शुद्ध कर देता है ॥ १३ ॥
**टि०—**गोविन्द स्वामी ने इसे इस प्रकार स्पष्ट किया है कि घृत और कुशोदक बराबर परिमाण में होना चाहिए, उससे दूना दधि और तिगुना दूध, चौगुना गोबर और पाँच गुना गोमूत्र हो इन छहों को मिलाकर एक दिन पान करे और दूसरे दिन उपवास करे तो दो रात्रियों का सान्तपन कृच्छ्र व्रत होता है ।
एतदुक्तं भवति-घृतं कुशोदकं च तुल्यपरिमाणम् । घृताद्विगुणं दधि, तस्मादेव त्रिगुणं क्षीरम् । तस्मादेव चतुर्गुणः शकृत् । पञ्चगुणं गोमूत्रमिति । गमूत्रादिषट्कमेकीकृत्यैकस्मिन्नेवाह्नि पीत्वाऽपरेद्युरुपवासः । एवं द्विरात्रस्सान्तपनो भवति । आह च याज्ञवल्क्यः—
कुशोदकं दधि क्षीरं गोमूत्रं गोशकृद्धृतम् ।
प्राश्याऽपरेऽह्न्युपवसेत्कृच्छ्रं सान्तपनं चरन् ॥ इति ॥
अयमपरस्सान्तपनप्रकारः—
गोमूत्रं गोमयं क्षीरं ¹दधि सर्पिः कुशोदकम् ।
पञ्चरात्रं तदाहारः पञ्चगव्येन शुद्ध्यति ॥ १४ ॥
**अनु०—**गाय का मूत्र, गोबर, दूध, दही, घृत तथा कुशोदक इनका पाँच (दिन (और रात्रि आहार करने वाला पञ्चगव्य से शुद्ध हो जाता है ॥ १४ ॥
पञ्चगव्यविधानेनेति शेषः ॥ १४ ॥
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ।
पराको नाम कृच्छ्रोऽयं सर्वपापप्रणाशनः ॥ १५ ॥
१. अपश्चै व घृतं तथा इति ग पु० ।
| ३८८ | बौधायन-धर्मसूत्रम् | [ सान्तपनादिकृच्छ्रः |
|---|
अनु०—इन्द्रियों पर संयम रखते हुए और सावधान होकर बारह दिन तक भोजन न करे तो यह पराक नाम का कृच्छ्र व्रत होता है जो सभी पापों का नाश करता है ॥ १५ ॥
यतात्मा ¹नियतेन्द्रियः आस्तिकः । स्त्रीणां रजोदर्शने च व्रतानिवृत्तिः । तथादर्शने पूर्वसमाप्तिमप्रसङ्गात् । तथा सत्युपदेशानार्थक्यमिति ॥ १५ ॥
गोमूत्रादिभिरभ्यस्तमेकैकं तं त्रिसप्तकम् ।
महासान्तपनं कृच्छ्रं वदन्ति ब्रह्मवादिनः ॥ १६ ॥
अनु०—यदि गोमूत्रादि उपर्युक्त सात पदार्थों में एक-एक प्रतिदिन ग्रहण करे और इस प्रकार सात-सात दिन की तीन अवधि तक व्रत करे तो उसे ब्रह्मज्ञ लोग महासान्तपन कृच्छ्र व्रत कहते हैं ॥ १६ ॥
सान्तपनस्सप्तरात्रपरिसमाप्य उक्तः । स ²दण्डकलितदावृत्त्या त्रिरभ्यस्त एकविंशतिरात्रो महासान्तपनो नाम भवति ॥ १६ ॥
एकवृद्ध्या सिते पिण्डे एकहान्याऽसिते ततः ।
पक्षयोरुपवासौ द्वौ तद्धि चांद्रायणं स्मृतम् ॥ १७ ॥
अनु०—यदि शुक्ल पक्ष में प्रतिदिन एक-एक ग्रास आहार बढ़ाता जाय और कृष्ण पक्ष में प्रतिदिन एक-एक कम करता जाय और दोनों पक्षों में दो दिन उपवास करे तो वह चान्द्रायण व्रत होता है ॥ १७ ॥
चान्द्रायणाण्योक्तस्याऽनुवादोऽयम् ॥ १७ ॥
अयमपरश्चान्द्रायणप्रकारः--
³चतुरः प्रातरश्नीयात्पिण्डान्विप्रस्समाहितः ।
चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ १८ ॥
१. संयतेन्द्रियः इति ग पु० ।
२. आवृत्तिर्द्विधा—दण्डकलितवदावृत्तिः, स्वस्थानविवृद्धिरिति । यथा—कस्यचित् क्षेत्रस्य माने कर्तव्ये क्वचित् कृत्स्नं दण्डं निवेश्य तदनन्तरदेशेऽपि कृत्स्न एव दण्डो निवेश्यते, न दण्डावयवः, सा दण्डकलितवदावृत्तिः । स्वस्थान एव प्रथमादिपदार्थस्य यावद्वारमावृत्त्याऽनुष्ठाय ततो द्वितीयादीनामनुष्ठानं सा स्वस्थानविवृद्धिः । एवं च समुदायस्य तेनैवरूपेणाऽवृत्त्याऽनुष्ठानं दण्डकलितवदावृत्तिः अवयवस्य आवृत्तिः स्वस्थानविवृद्धिरिति निष्कर्षः ॥
३. श्लोकद्वयमिदं नास्ति ग. II. पुस्तकयोः ।
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३८९
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३८९
अनु०—यदि पूर्णतः चित्त को लगाकर कोई विप्र प्रातः चार ग्रास भोजन करता है और सायंकाल सूर्य अस्त होने पर चार ग्रास भोजन करता है तो वह व्रत शिशुचान्द्रायण कहा जाता है ॥ १८ ॥
अष्टावष्टौ मासमेकं पिण्डान्मध्यन्दिने स्थिते ।
नियतात्मा हविष्यस्य यतिचान्द्रायणं चरेत् ॥ १९ ॥
अनु०—यदि एक मास तक प्रतिदिन केवल मध्याह्न में आठ-आठ ग्रास यज्ञ के योग्य हवि का भोजन करे तथा इन्द्रियों पर संयम रखे, तो वह यतिचान्द्रायण व्रत होता है ॥ १९ ॥
यथाकथंचिद्पिण्डानां द्विजस्तिस्रस्त्वशीतयः ।
मासेनाऽश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ २० ॥
अनु०—यदि कोई द्विज एक मास में यज्ञ के योग्य अन्न का अस्सी के तिगुने ( दो सौ चालीस ) ग्रास भोजन करता है तो वह चन्द्रमा के लोक को ही प्राप्त करता है ॥ २० ॥
चत्वारिंशदधिकशतपिण्डान्यथाकथञ्चिन् मासेनाऽश्नीयात् तिस्रोऽशीतय इति द्वितीयार्थे प्रथमा । तदैन्दवं नाम चान्द्रायणम् ॥ १८-२० ॥
यथोद्यंश्चन्द्रमा हन्ति जगतस्तमसो भयम् ।
तथा$^१$ पापाद्भयं हन्ति द्विजश्चान्द्रायणं चरन् ॥ २१ ॥
अनु०—जिस प्रकार उगता हुआ चन्द्रमा संसार के अन्धकार के भय को दूर करता है, उसी प्रकार चान्द्रायण व्रत करने वाला द्विज पाप से होने वाले भय को नष्ट कर देता है ॥ २१ ॥
सर्वप्रकारस्याऽपि चान्द्रायणस्य प्रशंसैषा ॥ २१ ॥
कणपिण्याकतक्राणि तथा चाऽपोऽनिलाशनः ।
एकत्रिपञ्चसप्तैति पापघ्नोऽयं तुलापुमान् ॥ २२ ॥
अनु०—जो व्यक्ति एक दिन चावल के कण खाकर, तीन दिन तिलका पिण्याक खाकर पांच दिन मट्ठा पीकर, सात दिन जल पीकर और एक दिन वायु का भक्षण कर व्रत करता है वह पापों को नष्ट करने वाले तुलापुमान् नाम का व्रत करता है ॥ २२ ॥
१. एवं पापाद् इति ग पु० । पापान्नचापि इति घं पु० ।
| ३९० | बौधायनधर्मसूत्रम् | [ चान्द्रायणकल्पः |
|---|
टि०—यह सत्रह दिन का तुलापुमान् व्रत बताया गया है । अन्यत्र यह व्रत पन्द्रह दिन का बताया गया है जैसे याज्ञवल्क्यस्मृति में ।
एकस्मिन्नहनि कणान् भक्षयेत् । त्रिषु पिण्याकमित्यादि । भक्ष्यद्रव्यप्रमाणं च शरीरस्थिति निबन्धनम् । एवं च सप्तदशाहिकस्सम्पद्यते । महतीमपि तुलामारूढः पापस्य पुरुषश्शुद्ध्यतीति तुलापुमान् । तथा च पञ्चदशाहिकः कोऽपि तुलापुरुषो विद्यते । तथा याज्ञवल्क्येन—
पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ।
एकरात्रोपवासश्च कृच्छ्रसौम्योऽयमुच्यते ॥ इत्यभिहितम् ।
एषां त्रिरात्रमभ्यासादेकैकं प्रत्यहं पिबेत् ।
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥ इति ।
अत्र चोपवासस्य निवृत्तिर्वेदितव्या । पञ्चदशाहिक इति नियमात् ।
यावकस्सप्तरात्रेण वृजिनं हन्ति देहिनाम् ।
सप्तरात्रोपवासो वा दृष्टमेतन्मनीषिभिः ॥ २३ ॥
**अनु०—**यावक का आहार सात दिन में शरीर-धारियों के पाप को नष्ट कर देता है, इसी प्रकार सात दिन का उपवास भी पापों को नष्ट कर देता है, ऐसा मनीषियों ने माना है ॥ २३ ॥
यावक इति कस्यचित्कृच्छ्रस्यान्वर्थसंज्ञा । सप्तरात्रं यवान्नसा । तावन्तं कालमुपवासो वा । वृजिनं वर्जनीयं पापमित्यर्थः ॥ २३ ॥
पौषभाद्रपदज्येष्ठा आर्दाकाशातपाश्रयात् ।
त्रीन् शुक्लान्मुच्यते पापात्पतनीयादृते द्विजः ॥ २४ ॥
**अनु०—**क्रमशः पौष, भाद्रपद और ज्येष्ठ मासो के शुक्ल पक्षों में क्रमशः गीले वस्त्र पहनकर रहने, खुले आकाश के नीचे रहने तथा सूर्य की धूप में रहने से द्विज पतनीयों को छोड़कर अन्य सभी पापों से ( मुक्त हो जाता है ) ॥ २४ ॥
पुष्यस्तिष्यो नक्षत्रम् , तेन युक्तश्चन्द्रमा यस्मिन्मासि पौर्णमास्यां भवति स पौषमासः । भाद्रपदं प्रोष्ठपादानक्षत्रं तेन सह पौर्णमास्यां यस्मिन्मासि वर्तते स मासो भाद्रपदो नाम । तथा ज्येष्ठया वर्तत इति ज्येष्ठोऽपि मास एव । पौषभाद्रपदज्येष्ठा इति निर्देशः प्रथमान्तः । तेषु यथाक्रमं आर्दाकाशातपाश्रयात् । आश्रयशब्दः आर्दादिषु प्रत्येकं सम्बध्यते । आर्दाश्रयत्वं आर्द्रवासस्त्वम् । आकाशाश्रयत्वमातपाश्रयत्वं चाऽप्रावरणता । त्रयाणां तस्मिन् तस्मिन्मासे सत्तत् सर्वदा कर्तव्यम् ? नेत्याह-त्रीन् शुक्लान् पक्षानिति शेषः । तत्र शुक्लपक्ष
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३९१
इत्यर्थः। 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया। अतश्चाऽहर्निशमिति गम्यते। किमेवं कृते सर्वस्मात्पापान्मुच्यते? न; पतनीयादृते। तस्य हि प्रायश्चित्तान्तरेण भवितव्यम्। द्विजग्रहणमनुवादः। 'जपहोमेष्टिमन्त्राणि करिष्यन्नादितो द्विजः' इत्यधीतत्त्वात् ॥ २४ ॥
इदं चाऽन्यत्—
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
यवाचामेन संयुक्तो ब्रह्मकूर्चोऽतिपावनः ॥ २५ ॥
**अनु०—**गाय का मूत्र, गोबर, दूध, दही, घृत और कुशोदक जौ के बने यवागू के साथ मिलाये जाने पर अत्यन्त पवित्र करने वाला ब्रह्मकूर्च कहलाता है ॥ २५ ॥
'यवानां आचामो यवागूः। यद्वा-आचमनं आचामः। एषः ब्रह्मकूर्चो नाम कृच्छ्रः। अस्य विधिः स्मृत्यन्तराद्वेदितव्यः। यथा हि—
पालाशं पद्मपत्रं वा ताम्रं वाऽथ हिरण्मयम् ।
गृहीत्वा²ऽवहितो भूत्वा त्रिराचामेद्विजोत्तमः ॥
गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
तथा शुक्रमसीत्याज्यं देवस्य त्वा कुशोदकम् ।
चतुर्दशीमुपोप्याऽथ पौर्णमास्यां समारभेत् ॥
गोमयाद्द्विगुणं मूत्रं शकृद्यावच्चतुर्गुणम् ।
क्षीरमष्टगुणं देयं तथा³ दशगुणं दधि ।
स्थापयित्वाऽथ दर्भेषु पालाशैः पत्रकैरथ ।
तत्त्समुद्धृत्य होतव्यं देवताभ्यो यथाक्रमम् ॥
अग्नये चैव सोमाय सावित्र्यै च तथैव च ।
प्रणवेन तथा कृत्वा ततश्च स्विष्टकृत्स्मृतः ॥
एवं हुत्वा ततश्शेषं पापं ध्यात्वा समाहितः ।
आलोड्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु ॥
उद्धृत्य प्रणवेनैव पिबेच्च प्रणवेन च ॥
१. आचामशब्दो मण्डपरतया ( हिन्दी भाषायां 'मांड' इति द्राविडभाषायां ',कञ्जी'' इति च प्रसिद्धवस्तुवाचकत्तया ) व्याख्यातो महीधरभाष्ये ( शु. य. सं. )
२. गृहीत्वा साधयित्वाऽऽचामनकर्म समारभेत् इति ग पु० ।
३. दधि पञ्चगुणं तथा इति ग पु० ।
३९२ बौधायन-धर्मसूत्रम् [ कृच्छ्रविशेषः
एवं ब्रह्मकृतं कूर्चं मासि मासि चरन् द्विजः ।
सर्वपापविशुद्धात्मा ब्रह्मलोकं स गच्छति ॥ इत्यादि ॥ २५ ॥
अमावास्यां निराहारः पौर्णमास्यां तिलाशनः ।
शुक्लकृष्णकृतात्पापान्मुच्यतेऽब्दस्य पर्वभिः ॥ २६ ॥
**अनु०—**जो व्यक्ति अमावास्या को उपवास करता है और पौर्णमासी को केवल तिलों का भक्षण करता है वह एक वर्ष में शुक्लपक्षों तथा कृष्णपक्षों में किये गये पापों से मुक्त हो जाता है ॥ २६ ॥
सांवत्सरिकमेतद्व्रतम् , तस्मादब्दस्य पर्वभिरसम्बन्धः । न पुनश्शुक्लकृष्णकृतमिति । एवं च तस्मिन् संवत्सरे मधुमांसवर्जनमधश्शयनमित्यादि द्रष्टव्यम् ॥ २६ ॥
भैक्षाहारोऽग्निहोत्रिभ्यो मासेनैकेन शुद्ध्यति ।
यायावरवनस्थेभ्यो दशभिः पञ्चभिर्दिनैः ॥ २७ ॥
**अनु०—**अग्निहोत्रियों से प्राप्त भिक्षा का भक्षण करने वाला एक मास में शुद्ध होता है। जो यायावर गृहस्थ से प्राप्त भिक्षा का भक्षण करता है वह दस दिन में शुद्ध होता है तथा वानप्रस्थ से प्राप्त भिक्षा के भक्षण से पाँच दिन में ही शुद्ध हो जाता है ॥ २७ ॥
यायावरेभ्यो भैक्षाहारो दशभिर्दिनैः, वनस्थेभ्यः पञ्चभिर्दिनैः इति योजना । अन्यच्च व्याख्यातम् । एतेऽपि च त्रयः कृच्छ्राः ॥ २७ ॥
एकाहं धनिनोऽन्नेन दिनेनैकेन शुद्ध्यति ।
कापोतवृत्तिनिष्ठस्य पीत्वाऽपश्शुद्ध्यते द्विजः ॥ २८ ॥
**अनु०—**जिस व्यक्ति के पास केवल एक दिन भर के लिए अन्न है उसके द्वारा दिये गये अन्न से एक दिन में ही शुद्धि हो जाता है। कापोतवृत्ति से जीविका निर्वाह करने वाले व्यक्ति द्वारा दिये गये जल को भी पीकर द्विज शुद्ध हो जाता है ॥ २८ ॥
एतावपि च द्वौ कृच्छ्रौ ॥ २८ ॥
ऋग्यजुस्सामवेदानां वेदस्याऽन्यतमस्य वा ।
पारायणं त्रिश्भ्यस्येदनश्नन् सोऽतिपावनः ॥ २९ ॥
**अनु०—**यदि बिना भोजन किये ऋग्वेद, यजुर्वेद और सामवेद का अथवा किसी एक वेद का तीन बार पारायण करे तो वह अत्यन्त पवित्र करने वाला होता है ॥ २९ ॥
पञ्चमः खण्डः] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३९३
पञ्चमः खण्डः] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३९३
अन्यतमवेदपक्षे त्रिः । इतरथा सकृदेव ॥ २९ ॥
अथ चेत्त्वरते कर्तुं दिवसे मारुताशनः ।
रात्रौ जले स्थितो व्युष्टः प्राजापत्येन तत्समम् ॥ ३० ॥
**अनु०—**जो व्यक्ति शीघ्रता करना चाहे वह दिन में केवल वायु का आहार करे (अर्थात् बिना कुछ खाये-पिये रहे) और रात्रि को जल में खड़ा रहकर ही सवेरा कर दे, तो वह प्राजापत्य कृच्छ्र के समान व्रत होता है ॥ ३० ॥
गायत्र्याऽष्टसहस्रं तु जपं कुर्वोत्थिते रवौ ।
मुच्यते सर्वपापेभ्यो यदि न भ्रूणहा भवेत् ॥ ३१ ॥
**अनु०—**जो व्यक्ति सूर्य के उगने पर एक सहस्र और आठ बार गायत्री मन्त्र का जप करता है, वह यदि विद्वान् ब्राह्मण की हत्या का दोषी नहीं है, तो सभी पापों से मुक्त हो जाता है ॥ ३१ ॥
त्वरते कर्तुं कर्म सामर्थ्यजुरथर्वेणामिति शेषः । प्राणायामविशेषेण जानुद्वयसजलस्थितस्याऽपि शाखार्थासिद्धयतीति मन्तव्यम् । व्युष्टः उषोन्तरितः । श्वोभूते अष्टौ च सहस्रं सावित्र्या जपं कुर्यात् । अत्र प्राजापत्येन तत्सममिति वचनादिदमन्यत् स्मृत्यन्तराद्वेदितव्यम्, प्राजापत्यादौ प्रवृत्तस्याशक्तस्य विप्रभोजनेनाऽपि तत्सिद्धिर्भवतीति । प्राजापत्ये तावदशक्यदिनेषु प्रतिदिनं विप्रान् पञ्चावरान् शुद्धान् भोजयेत् । एवं विधानेनैवाऽतिकृच्छ्रे पञ्चदशावरानशक्यदिनेषु प्रतिदिनं वा विप्रमेकम् । एतत्सर्वत्र समानम् । कृच्छ्रातिकृच्छ्रे त्रिंशतम्, तप्तकृच्छ्रेषु चत्वारिंशतम्, पराकनिर्णये पञ्चाशतम्, चान्द्रायणे षड्विंशतिम्, तुलापुंसि तु त्रयोविंशतिम्, महासान्तपने षड्विंशतिम्, तथैकाहोपवासे पञ्च । त्रिरात्रे प्रत्यहं दशदशेत्यादि ॥ ३०-३१ ॥
किं वाऽत्र बहुनोक्तेन—
योऽन्नदस्तसत्यवादी च भूतेषु कृपया स्थितः ।
पूर्वोक्तयन्त्रशुद्धेभ्यस्सर्वभ्यस्सोऽतिरिच्यते ॥ ३२ ॥
इति चतुर्थप्रश्ने पञ्चमः खण्डः ।
**अनु०—**जो अन्न का दान करता है, सत्यभाषण करता है तथा प्राणियों पर दया करता है वह पूर्वोक्त व्रतों से शुद्ध हुए सभी व्यक्तियों से बढ़कर होता है ॥ ३१ ॥
एवंविधवृत्तस्थ इत्यभिप्रायः ॥ ३२ ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते चतुर्थप्रश्ने पञ्चमोऽध्यायः ।