बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 43, कुल 486 में से
संदर्भ में पढ़ेंकिञ्चित् प्रास्ताविकम्
इदमधुना भगवद्बौधायनमहर्षिप्रणीतं धर्मसूत्रं श्रीगोविन्दस्वामिरचितेन विवरणेन साकं मुद्राप्य प्रकाशं नीयते । ग्रन्थोऽयमितः पूर्वं Leipzig नगरे 1848. ई० वर्षे, महीशूरपुरे १६०५ ई० वर्षे १६०९ ई० वर्षे पुण्यपत्तने च मुद्रितः । अतश्चतुर्थमिदं मुद्रणमास्माकीनम् । तत्र प्राथमिकं तार्तीयीकं मुद्रणं च मूलमात्रविश्रान्तमिति न तेन व्याख्याकांक्षाऽपनीता । द्वितीयेन तु मुद्रणेन साऽपनीता यद्यपि, तथाऽपि तत् संस्करणमिदानीमनुपलब्धिगोचरतामनुभवति । अतस्तदुद्धरणाय प्रवृत्तः श्रीमान् चौखम्बाग्रन्थमालाधिपः अस्माननुरुरोधाऽस्य पुनस्संस्करणाय । अत्र च प्रवृत्तैरस्माभिरधोनिर्दिष्टान्यादर्शपुस्तकान्यासादितानि—
( मूलपुस्तकानि )
( अ ) मदीयमेव मद्रपुरे ग्रन्थाक्षरमुद्रितमेकं मूलमात्रम् ।
( आ ) लवपुरीयसंस्कृतपुस्तकभवनाध्यक्षैः श्रीभगवद्दत्तशास्त्रिभिस्सादरं प्रहितं ग्रन्थाक्षरलेखितमपरं तादृशमेव ।
( इ ) लिप्सिग्नगरे नागराक्षरैर्मुद्रितं मूलमात्रम् ।
( ई ) पूनानगरे अष्टाविंशतिस्मृत्यन्तर्गतत्वेन मुद्रितमेकम् ।
( व्याख्यानपुस्तकानि )
( क ) श्रौतिकुलतिलकभूतानां मणक्काल् श्रीमुद्दुदीक्षितमहोदयानां पुस्तकं नवीनं अशुद्धप्रायं ग्रन्थाक्षरलेखितम् ।
( ख ) तेषामेव प्राचीनतरं शुद्धप्रायं आदौ किञ्चित् खण्डितं च ।
( ग ) श्रीभगवद्दत्तशास्त्रिमहोदयैरेव प्रेषितं ग्रन्थाक्षरलेखितं शुद्धंसमग्रं च ।
( घ ) श्रीकल्याणसुन्दरशास्त्रिमहोदयानां महीशूरपुरमुद्रितम् ।
( ङ ) तदेव काशिकसरस्वतीभवनतः प्राप्तम् ,
इति व्याख्यादर्शपुस्तकानि । एवं चतुःप्रकाराणि मूलादर्शपुस्तकानि चतुर्विधानि व्याख्यादर्शपुस्तकानि चाऽवलम्ब्य शोधितोऽयं यथामति ।
तत्र महीशूरपुरमुद्रितं पुस्तकमादर्शपञ्चकमवलम्ब्य शोधितमपि सर्वेषामादर्शानामैकरूप्येणाऽशुद्धबहुलतया च स्थितत्वात् तदपि तथैवाऽशुद्धिपूरितमेव सन्मनस्तुदति स्मैव महासनसामपिसुमनसाम् । तत्र च परिचयार्थमधः काश्चनाऽशुद्धयः प्रदर्श्यन्ते—