भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 44, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 44

[ ४० ]

मैसूरपुस्तकपाठःशोधितोऽस्मत्पुस्तकपाठः
( १ ) खङ्गे तु विषदन्तः पृ० ६६. पं० ५.( १ ) खड्गे तु विवदन्ते चौ. सं. ६५. ४.
( २ ) एकाशौचे तद्द्रष्टव्यम् पृ० १०५. पं० १३.( २ ) एकाग्नौ चैतद्द्रष्टव्यम् ७७. ११.
( ३ ) अस्थिसंस्रावहोमादि पृ० १०७. पं० १४.( ३ ) मन्थिसंस्रावहोमादि ७६. ५.
( ४ ) अप्याचमनं तीर्थं क इह प्रवोच इत्यनेन पथा प्रविशेत्तैर्मतस्य पृ० १०६. पं० ८.( ४ ) आप्रान तीर्थं क इह प्रवोचद्येन पथा प्रपिवन्ते सुतस्य पृ० ८१. पं० ५.
( ५ ) स्वापराधनिमित्ते तु मरणादेशं वक्तुमिति पृ० १४५ पं० ३.( ५ ) स्वापराधनिमित्ते तु मरणे नेदं युक्तमिति पृ० १२७. पं० १४.
( ६ ) सत्सुअन्येषु देवरेषु, द्वितीयोऽवरश्च पत्युर्भूतः पृ० १६३. पं० ४.( ६ ) तत्सुतेषु देवरो द्वितीयो वरः। स पत्युर्भाता। पृ० १३८. पं० २०
( ७ ) तथा दाररक्षणमप्युक्तम् पृ० २५५. पं० ६.( ७ ) तथा दत्तेणाऽप्युक्तम् पृ० १८५. पं० ६.
( ८ ) अपि तु अदन्तदंशननिन्दैषा पृ० २६३. पं० १७.( ८ ) अस्ति तु। तस्माद् ( अतो ) नशननिन्दैषा पृ० १६०. पं० १६
( ६ ) अत औपवसन्तीत्यौपवसम्। ते न तत्सन्निकर्षे पृ० २८२ पं० ४.( ६ ) तेनौपासनाग्निकेनाऽपि तत्सन्निकाशे (तत्सन्निकर्षे) पृ० २०५. पं० ३.

एवमनन्विता असम्बद्धाः पंक्तीर्बहुशोऽवलोक्याऽस्माकं प्रवृत्तिरुत्तेजिता। पुनर्मुद्रणेऽस्य बभूव। तत्र च 'ग'चिह्नितं पुस्तकमस्माकं शोधने महोपकारायोऽकल्पत इति तत्प्रेषयित्रेव प्रथममर्हति धन्यवादम्।

पुस्तकेऽत्र शोधनादौ यश्च यावांश्च परिश्रमः कृतोऽस्माभिः स विदुषां पुरतस्तिष्ठत्येव। अत्र हि टिप्पणी विषमस्थलविवेचिनी मीमांसापदार्थतत्त्वावेदिनिका लघ्वी काचन संयोजिता। सूत्रगृहीतप्रतीकानां मन्त्राणामनुवाकानां च सामग्रथं टिप्पण्यां प्रायेण सम्पादितम्। व्याख्योद्धृतानां प्रमाणवाक्यानामाकरो ग्रन्थान्ते प्रदर्शितः। पदसूच्यपि काचित् महीशूरपुस्तकविलक्षणा निर्मिता ग्रन्थान्ते संयोजिता च। किञ्चाऽत्र कृतो विभागः प्रश्नखण्डसूत्ररूपात्मना विशेषता ध्यानमर्हति। अयं हि भागो धर्मसूत्रात्मकः अदसीयगृह्ये चतुर्दशादिसप्तदशान्तप्रभतया परिगणितः। गृह्ये तु प्रश्नखण्डसुत्रात्मना विभागः कृतः यद्यपि तत्र क्वचित् प्रश्नेषु अध्यायविभागोऽपि दृश्यते, तथाऽपि न स सर्वत्र,