बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 45, कुल 486 में से
संदर्भ में पढ़ें[ ४१ ]
खण्डविभागस्तु सर्वत्राऽनुगतः । अतोऽत्र धर्मसूत्रेऽपि खण्डविभागेनैव भाव्यम् । अत एव देशान्तरमुद्रितमूलपुस्तके ग्रन्थाक्षरमुद्रितमूलपुस्तके च खण्डविभाग एव प्राधान्येनाऽऽहृतः । अध्यायविभागस्तु गौणतया । हस्तलिखितमूलपुस्तके तु अध्यायविभागस्सर्वथा परित्यक्तः । अतो लिखितमुद्रितमूलपुस्तकापलभ्यमान एव खण्डादिविभागे प्राचीनतां सूत्रकाराभिमततामौचितीं च मन्वानैस्तत्संरक्षणे बद्धादरैस्स एव विभागस्समाहृतः । व्याख्यानुरोधात्तु अध्यायविभागोऽपि कृतः । स तु परं न प्रधानया, न वा सूत्रसम्बन्धेन । महीशूरपुस्तके गृह्यसूत्रेऽप्यध्यायविभागमवलम्ब्य खण्डविभागस्सर्वथा परित्यक्तस्सोऽध्येतृशिष्टपरम्पराविरोधी । पदसूच्यपि तामेवरीतिमनुसरत्यत्र ।
एवमत्र संस्करणेऽध्ययनाध्यापनादौ पूर्वसंस्करणापेक्षया विशेषोपकारमभिलषता मया परिश्रान्तम् । साफल्यं परं प्राप्तं मया न वेति विद्वन्मनांस्येव निकषोपलाः ।
अत्र च यैः पण्डितप्रवरैः पुस्तकालयाध्यक्षैरन्यैश्चाऽस्मन्निकटं पुस्तकानि प्रेषितानि सानुकम्पं स्थापितानि च यावच्छोधनसमाप्ति स्वपुस्तकालयनियमोल्लङ्घनमस्माकीनं सोढ्वाऽपि, तेषामातृण्यमशक्नुवन् सम्पादयितुं केवलं कृतज्ञतामाविष्करोमि पुनः पुनः ।
शोधनादिकार्ये सूचीनिर्माणादौ च यदस्मत्प्रियशिष्येण हिन्दूविश्वविद्यालये पूर्वमीमांसायास्सहायाध्यापकेन श्रीपट्टाभिरामशर्मणा मीमांसाचार्येण, अन्यैश्च शिष्यवरैः सुबहु परिश्रान्तमुपकृतं च, तत् सर्वथा प्रशंसनीयम् । अतस्तानाशीर्वचोभिरभिपूरयामि ।
सूत्रकारस्याऽस्य कालनिर्णयविषये आपस्तम्बाद्यपेक्षया पौर्वापर्यविषयादौ च यन्मया विचारितं यथामति, तदवसरे सति समनन्तरमेव निरूपयिष्यामि । अन्ततो विबुधवरानधीतिनश्च सानुनयमभ्यर्थये—ग्रन्थमिमं यथावदुपयुज्य सफलयन्तु मदीयं परिश्रमं प्रकाशयितुर्तुलमुत्साहं, वर्धयन्तु च तमाशीर्भिः पुनःपुनरेतादृशकार्यकरणे सर्वाङ्गीणसाहाय्यप्राप्तये इति—
| वाराणसी हनुमद्घट्टः <br> मार्गशीर्ष शुक्ल सप्तमी <br> वि० सं० १९९१ | सुधीजनविधेयः <br> चिन्नस्वामिशास्त्री <br> ( महामहोपाध्यायः ) |
|---|