भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 455, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 455

सप्तमः खण्डः ] चतुर्थप्रश्ने सप्तमोऽध्यायः ४०१

देवार्षाः । सहस्राक्षस्तु नारायणर्षिः । तत्राऽनुक्तच्छन्दसः त्रैष्टुभा वेदितव्याः । 'सहस्रशीर्षा' इत्याद्याः पञ्च अनुष्टुभः । मुगारण्याम्यासुकर्मणि 'अनु नोऽद्यानुमतिः, अन्विदनुमते त्वम' 'ये अप्रयेताम्, ऊर्ध्वी रोदसी' इत्येता अनुष्टुभः । 'वैश्वानरो नः' इति गायत्रो । 'यदिदं बृहतो । अंहोमुचौ तु यजुषी एव । ततश्छन्दोविशेषा- नादरः यद्यजुषाऽऽज्यं यजुषाऽप उत्पूनीयात् , छन्दसाऽप उत्पूनाति' इति यजुश्छन्दसोर्भेदनिर्देशात् । पावमानीषु पुनः प्रथमाद्वितीयाचतुर्थीपञ्चम्यष्ट- म्यो गायत्र्यः । तृतीया नवम्याद्या अन्त्यवर्जाइचाऽनुष्टुभः । कूष्माण्डीषु प्रथमाऽनुष्टुप् द्वितीयाऽतिजगती तृतीयाचतुर्थ्यो जगत्यौ, पञ्चम्यतिशक्वरी सप्तमी शक्वरो अष्टमो जगती, नवमी पंक्तिः दशम्येकादश्यौ शक्वर्यौ, त्रयोदश्य- त्यष्टिः, चतुर्दश्यनुष्टुप् । ततो गायत्र्यौ । सर्वलिङ्गोक्तदेवताः । सहस्राक्षस्तु पौरुषः ॥ ५ ॥

घृतौदनेन ता जुहुत्सप्ताहं सवनत्रयम् । मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ॥ ६ ॥

अनु०—प्रत्येक मन्त्र के सात घृत और ओदन की आहुती प्रातःकाल मध्याह्न और सांयकाल तीनों सवनकालों पर ( सात दिन तक मौन रहते हुए, यज्ञ योग्य अन्न का भक्षण करते हुए तथा इन्द्रियों और क्रियाओं पर नियन्त्रण रखते हुए करे ॥ ६ ॥

घताप्लुतेनौदनेन ताः प्रतिमन्त्रं हस्तेन दर्व्या वा परिभाषासिद्धया 'दर्व्या- ऽन्नस्य जुहोति' इति । "सप्ताहमिमानि व्रतान्यनुकर्षन्मौनव्रती" इत्यादीनि॥६॥

अथ प्रतिसवनहोमानन्तरम्— “सिंहे मे" इत्यपां पूर्णे पात्रेऽवेक्ष्य चतुष्पथे । मुच्यते सर्वपापेभ्यो महतः पातकादपि ॥ ७ ॥

अनु०—चौराहे पर जल से भरे हुए पात्र को 'सिंहे मे' आदि मन्त्रों का उच्चारण करते हुए देखने पर वह व्यक्ति सभी पापों से मुक्त हो जाता है, बडे दोष से भी शुद्ध हो जाता है ॥ ७ ॥

१. उपसम्भकरणं नाम—आकुञ्चितस्य सव्यजानुन उपरि दक्षिणं पादं निक्षिप्यो पवेशनम् । २. सिं‍हे मे मन्युः । व्याघ्रे मेऽन्तररामयः । वृके मे क्षुत् । अश्वे मे घसिः । धन्वन्ति मे पिपासा । राजगृहे मेऽशनया । अश्मनि मे तन्द्रिः । गर्दभे मेऽर्षः । पथ्य(ल्प)के मे होः ।। अश्वत्थे मे वेपथुः । कूर्मे मेऽङ्गरोगः । बस्ते मेऽपसर्या ।

२९ बौ० गृ०