बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 456, कुल 486 में से
संदर्भ में पढ़ें४०२ बौधायन-धर्मसूत्रम् [ गणहोमाः
अप्रीये मे मृत्युः । भ्रातृव्ये मे पाप्मा । सपत्ने मे निर्ऋतिः । दुष्कीतौ मे ऽमृद्धिः । पर- स्वति मेऽसमृद्धिः । खड्गे मे भ्रातिः । गवये मे भ्रातव्यम् । गौर मे बाधिर्यम् । ऋक्षे मे शोकः । गोधायां मे स्वेदः । जरायां मे हिमः । कृष्णशकुनौ मे भीरुता । कशे मे पापो गन्धः । उलूके मे स्वभ्यषः । क्रोके मे ईर्ष्या । मर्कटे मेदुरृऋद्धिः । कुलले मे मँस्यां । खलले मे प्रभ्या । उष्ट्रे मे तृष्णा । ऋश्ये मे श्रमः । अठ्यां मे भ्राव्यम् । कोषो मे गन्धः । कुमार्यां मेऽलङ्कारः । सूकरे मे कलहशुः, पुदाखुनौ मे स्वरना (प्नः) । अजगरे मे दुस्स्वप्ना (प्नः) । विद्युति मे स्मयशः । लोभायां मे क्लेदः । शलमे मे पाप्माऽलक्ष्मीः । स्त्रीषु मेऽनृतम् । अजासु मे कर्कशः । व्रात्ये म ईत्या । शूद्रे मे स्तेयम् । वैश्ये मे कामंकृत्यम् । राजन्यबन्धुनि मेऽज्ञानम् । नैषादे मे ब्रह्महत्या । कुलिङ्गे मे क्षवथुः । उलले मे विलासः । उद्विद्रणि मे वमनिः । किंपुरुषे मे रोदः । द्वीपििन मे निष्कपन् । हस्तिनि मे किलासः । शुनि मेदुरिप्रस्खा । वन्येषु मे म्लेच्छः । विदेहेषु मे शोवधुः । महावर्षेषु मे ग्लोः । मूजवत्सु मे तप्ना । दुन्दुभो मे कासिका । इक्ष्वाकुषु मे पित्तम् । कलिङ्गेषु मेऽमेध्यम् । अभ्रतर्या मेऽप्रजस्ता । पुंश्चल्यां मे दुष्प्र- वित्रम् । आखुनि मे दन्तरोगः । मक्षिकाया मे श्लक्ष्णशः । शुके मे हरिमा । मयूरे मे जल्प्या । वृषे मे जरा । चाषे मे पापवादः । अप्सु मे क्षमः । ब्रह्मोज्झे मे किल्बिषम् ।
अपैहि पाप्मन् पुनरपनाशितो भवा नः पाप्मन्त्सुकृतस्य लोके पाप्मन्वेह्यविद्वत यो नः पाप्मञ् जहाति तमु त्वा बर्हिमो वयमन्यत्राऽस्मन्निदिशतात् । सहस्राक्षो अमर्त्यो यो नो द्वेष्टि स रिष्यतु यमु द्विष्यस्तमु जहि । सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः पाप्मन् ॥ मान्ना इमे बौधा- यनीयश्रौतसूत्रे संहितारूपेण पठिताः (बौ. श्रौ. २. ३) तथाऽप्यध्येतृपरम्परायां पाठ- सौकर्यार्थं विहृत्यैव पाठात् तथैवाऽस्माभिरप्यत्र निवेशिताः :
उदपात्रमादाय चतुष्पथं गत्वा प्राङ् मुख १ उपस्थं कृत्वा तस्मिन्नेव उदपात्रेऽवेक्षमाणः पापं ध्यायन् विनियतन् ब्रूयात् । २ 'सिंहे मे मन्युः' इत्यन्तमैतममुवाकं निगद्य निनीयाऽपो नैर्ऋत्यां दिशि परास्य पात्रमन- वेक्षमाणो हस्तपादान् प्रक्षाल्य तेनैव मार्गेण यथैतमेत्य । तदेतदुक्तम्- 'सिंहे म इत्यपां पूर्णे' इति । अत्राऽपरे याज्ञिकाः प्रयोगज्ञंमन्यमाना दार्विहो- मिकीं परिचेष्टां कुर्वंते, आनाम्नातया च पक्वहोमवत्ते च स्विष्टकृदुपहोमा गणहोमा (?) इति वदन्तः । तत्तु युक्तायुक्ततया विचारणीयम् ॥ ७ ॥
वृद्धत्वे यौवने बाल्ये यः कृतः पापसञ्चयः ।
पूर्वजन्मसु (१) वाऽज्ञानात्तस्मादपि विमुच्यते ॥ ८ ॥
१. वाऽज्ञातः इति मूलपुस्तकेषु पाठः ।