बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 54, कुल 486 में से
संदर्भ में पढ़ें२ बौधायन-धर्मसूत्रम् [ धर्मप्रमाणम्
अनुभूतविषयासम्प्रमोषः स्मृतिः । तदभिव्यञ्जको ग्रन्थः स्मृतिशब्देनोप- चर्यते । स्मार्तः स्मृत्युपदिष्टः । अनुव्याख्याग्रहणं स्मार्तस्य धर्मस्य कल्पविधि- मन्त्रार्थवादमूलत्वप्रदर्शनार्थम् । तच्च^१ 'धन्वन्निव प्रपा असि' 'तस्माच्छ्रेयासं पापीयान् पश्चादन्वेति' इत्यादि । अत एव प्रपागुर्व्वनुगमनादीनां कर्तव्यतामव- गम्य तत्कर्तव्यता स्मृतिशास्त्रकारैरुपदिश्यते । अत एव द्वितीयः । एवं^२ चाऽस्य श्रौतधर्म^३विरोधे सति दौर्बल्यं द्रष्टव्यम् । स च स्मार्तो धर्मः पञ्चविधो भवति—^४वर्णधर्मः, आश्रमधर्मः, वर्णाश्रमधर्मः, गुणधर्मः, निमित्तधर्मश्चेति । तत्राऽपि साधारणविशिष्टधर्मभेदेन द्वैविध्यं · द्रष्टव्यम् । 'द्विजातीनामध्ययनम्' इत्यादिः साधारणधर्मो वर्णधर्मः । 'ब्राह्मणस्याऽधिकाः प्रवचनयाजनप्रतिग्रहाः' इत्यादिर्विशिष्टः । तथा आश्रमधर्मो दयादिस्साधारणः । अग्नीन्धनादिर्विशिष्टः । तथा - वर्णाश्रमधर्मोऽप्यग्नीन्धनादिस्साधारणः । बैल्वदण्डधारणादिर्विशिष्टः । अभिषेकादिगुणयुक्तस्य राज्ञो रक्षणं गुणधर्मः । ^५हिंसादिनिमित्तधर्मः । उपादे- यानुपादेयताकृतो गुणनिमित्तयोर्विशेषः ॥ ३ ॥
तृतीयः शिष्टागमः ॥ ४ ॥
अनु०—शिष्ट जनों द्वारा आचरित धर्म तीसरे स्थान पर आता है ॥ ४ ॥
टिप्पणी—इस सूत्र के अनुसार शिष्टजनों का आचरण धर्म का तीसरा स्रोत है किन्तु उसकी प्रामाणिकता श्रुति और स्मृति के बाद ही समझनी चाहिए ।
धर्म इत्यनुषज्यते । शिष्टैरागम्यत इति शिष्टागमः । शिष्टैराचरित इत्यर्थः । तत्र प्रत्यक्षश्रुतिविहितो धर्मः प्रथमो धर्मः । विप्रकीर्णमन्त्रार्थवादमूलो द्वितीयः । तृतीयस्तु प्रलीनशाखामूलः । सर्वेषां वेदमूलत्वेऽपि दौर्बल्यमर्थविप्रकर्षाद्वेदि- तव्यम् ॥ ४ ॥
१. हे अग्ने ! त्वं धन्वनि निरुदके प्रदेशे प्रपा पानीयशाला 'प्याऊ' इति भाषायां प्रसिद्धा, सेवाऽसि, इति मन्त्रखण्डस्याऽर्थः ।
२. एवन्त्वस्य, इति क. पु.
३. व्यतिक्रमे धर्मदौर्बल्यं, इति क. पु.
४. जातिमात्रोद्देशेन विधीयमानो धर्मो वर्णधर्मः । ब्रह्मचर्याद्याश्रमोद्देशेन विधी-यमानो धर्मः आश्रमधर्मः । वर्णगताश्रमोद्देशेन व्यवस्थया विधीयमानो धर्मः वर्णाश्रमधर्मः । गुणं कंचनोपादाय तदवलम्बेन विधीयमानो धर्मो गुणधर्मः । निमित्तमुपादाय विधीयमानो निमित्तधर्मः । विज्ञानेश्वरस्तु पञ्चभिरेभिस्साकं साधारणधर्मं कञ्चवोदाय षड्विधमाह ।
५. विज्ञानेश्वरस्तु—निमित्तधर्मो विहिताकरणप्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम्, इति निमित्तधमं व्याख्याय साधारणधर्मोऽहिंसादिः इत्युक्तवान् ॥