भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 91, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 91

षष्ठः खण्डः ] प्रथमप्रश्ने चतुर्थोऽध्यायः ३९

अजः छागः। स्तम्बस्सङ्घातः। एतेषु चतुर्ष्वग्निः पठ्यते वेदेषु^१ आधाने— 'आग्नेयी वा एषा यदजा' इत्येवमादिषु। तस्माद् ब्राह्मणस्याऽपि दक्षिणे हस्तेऽग्निर्विद्यते। एवं च कमण्डलोरशुचिभावे प्राप्ते तं दक्षिणेन पाणिना परिसृजेत् 'उद्दीप्यस्व' इति मन्त्रेण। पर्यग्निकरणं तद्भवति। तच्च पुनर्दाहाद्विशिष्टतरं शौचमापादयतीत्यर्थः ॥ २ ॥

अत्राऽपि किञ्चित्संस्पृष्टं मनसि मन्यते कुशैर्वा तृणैर्वा प्रज्वाल्य प्रदक्षिणं परिदहनम् ॥ ३ ॥

अनु०—इस विषय में भी यदि मन में ऐसी धारणा हो कि पात्र कुछ अशुद्ध हो गया है तो कुशस्तबक या अन्य प्रकार के तृणों को जलाकर दाहिने हाथ को नीचे करते हुए, चारो ओर से गरम करे ॥ ३ ॥

कमण्डलोरेवाऽशुचिसंस्पर्शशङ्कायां कुशैर्वा विश्वामित्रतृणैर्वाऽग्नौ प्रदीप्तैः प्रदक्षिणतः परिदहनं कर्तव्यम्। परितो दहनं परिदहनम् ॥ ३ ॥

अत ऊर्ध्वं श्ववायसप्रभृत्युपहतानामग्निवर्ण इत्युपदिशन्ति ॥ ४ ॥

अनु०—पात्रों के कुत्ता, कौआ या अन्य अपवित्र पशु-पक्षी द्वारा छुए जाने पर उन्हें उतनी देर तक अग्नि पर रखा जाये जब तक वे अग्नि के वर्ण के न हो जाँय ॥ ४ ॥

श्वादिभिरुपघाते पर्यग्निकरणं कृत्वा अत ऊर्ध्वं यथाऽग्निवर्णो भवति तथा दग्धव्य इत्युपदिशन्ति आचार्या इति शेषः ॥ ४ ॥

^२मूत्रपुरीषरोहितरेतःप्रभृत्युपहतानामुत्सर्गः ॥ ५ ॥

अनु०—मूत्र, मल, रक्त, रेतस् आदि अपवित्र पदार्थों द्वारा अशुद्ध कमण्डलुओं का त्याग कर देना चाहिए ॥ ५ ॥

एतैरुपहतानां कमण्डलूनामुत्सर्गस्त्यागः। व्यक्त्यपेक्षया बहुवचनम् ॥ ५ ॥

यदा कमण्डलुर्भग्नस्स्यात्, तदा किं कुर्यादित्यत्राह—

भग्ने कमण्डलौ व्याहृतिभिश्चतं जुहुयात् ॥ ६ ॥

अनु०—कमण्डलु के फूट जाने पर व्याहृतियों का उच्चारण करते हुए सौ बार हवन करे ॥ ६ ॥


१. इमानि वाक्यानि नाऽऽधानप्रकरणे श्रूयन्ते। अतः कथमत्राऽऽधाने इति लिखितं व्याख्यात्रेति न प्रतीमः।
२. सूत्रमिदमेतद्भाष्यः च नास्ति ग. पुस्तके।