बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 141, कुल 774 में से
संदर्भ में पढ़ें१२० बौधायनश्रौतसूत्रम् । [ ४ । ७ । ] त्याक्रम्याश्राव्याह स्वाहाकृतेभ्यः प्रेष्येति॑ । वषट्कृते जुहोत्य॑- थोदङ्ङत्याक्रम्य सꣳस्रावेण पृषदाज्यमभिघार्य वपामभिघार- यत्य॑थोपस्तौर्य¹ द्विः स्रुवेण वपाꣳ समवद्यत्यथाहैन्द्राग्निभ्यां छागस्य वपाया मेदसो ऽवदीयमानस्या॑नुब्रूहीति । द्विरभि- घारयत्य॑त्याक्रम्याश्राव्याहेन्द्राग्निभ्यां छागस्य वपां मेदः प्रस्थितं ५ प्रेष्येत्य॑थ पुरस्तात्स्वाहाकृतिꣳ स्रुवाहुतिं जुहोति स्वाहा देवेभ्य इति॑ । वषट्कृते वपां जुहोति जातवेदो वपया गच्छ देवान्त्वꣳ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतꣳ हविरदन्तु देवाः स्वाहेत्य॑थोपरिष्टात्स्वाहाकृतिꣳ स्रुवाहुतिं जुहोति देवेभ्यः स्वाहेत्य॑त्र वपाश्रपणी अनुप्रहरति १० प्राचीं विशाखां प्रतीचीमविशाखाꣳ स्वाहोर्ध्वनभसं मारुतं गच्छतमित्य॑थैने सꣳस्रावेणाभिजुहोत्य॑थोदङ्ङत्याक्रम्य यथाय- तनꣳ स्रुचौ सादयित्वा समुत्क्रम्य चात्वाले मार्जयन्ते॑ । ह्वयन्ति पत्नीꣳ ह्वयन्ति होतारꣳ ह्वयन्ति ब्रह्माणꣳ ह्वयन्ति प्रतिप्रस्थातारꣳ ह्वयन्ति प्रशास्तारꣳ ह्वयत्याग्नीध्रमेहि यज- १५ मानेतैदमापः² प्रवहतावद्यं च मलं च यत् । यच्चाभिदुद्रो- हानृतं यच्च शेपे अभूरुणम् ॥ निर्मा मुञ्चामि शपथान्निर्मा वरुणादुत । निर्मा यमस्य पड्बीशात्सर्वस्माद्