बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 158, कुल 774 में से
संदर्भ में पढ़ेंप्रयच्छति॑ तानि पत्नी शीर्षन्नधिनिधत्ते॑ ऽथैनां दक्षिणया द्वारोपनिष्क्रमय्य॑¹ दक्षिणेनान्वाहार्यपचनं दक्षिणेनोभे वेदी परीत्य प्राचीमुदानयन्वाचयति प्रघास्यान्हवामहे मरुतो यज्ञ- वाहसः करम्भेण सजोषस इत्य॑थ दक्षिणमग्निमग्रेण पुरस्तात्प्र- ५ त्यङ्मुखास्तिष्ठन्त्युत्तर एवाध्वर्युर्दक्षिणो यजमानो दक्षिणा पत्न्यैतानि करम्भपात्राणि पत्नी यजमानाय प्रयच्छति॑ तानि यजमानः शीर्षन्नधिनिधत्ते॑ ऽथ पुरोऽनुवाक्यामन्वाह ॥ ७ ॥ मो षू ण इन्द्र पृत्सु देवास्तु स ते शुष्मिन्नवयाः । मही ह्यस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीरित्युभौ १० याज्यां पत्नी च यद्ग्रामे यदर॑ण्ये यत्स॒भायां यदिन्द्रि॒ये । यच्छू॒द्रे यद॒र्ये एन॑श्चकृ॒मा व॒यम् । यदेकस्याधि॒ धर्म॑णि॒ तस्याव- यजनमसि स्वाहेत्य॑थैतद्वैषीकग्ं शूर्पमग्नावनुप्रहरत्य॑पि वाद्भि- रभ्युक्ष्य मुञ्चते॑ व्यवयतो ऽध्वर्युरनुमन्त्रयते ऽक्रन्कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वास्तं प्रेत सुदानव १५ इत्य॑थ प्रतिप्रस्थाता दक्षिणमग्निग्ं संमार्ट्युभौ स्रुचावाघारा- वाघारयतो॑ ऽध्वर्युरेव प्रवरं प्रवृणीते॑ प्रसिद्धग्ं होतारं वृणीते॑ सीदति होता॑ प्रसवमाकाङ्क्षतः² प्रसूतौ स्रुचौ³ आदायात्याक्रम्याश्राव्याह समिधो यजेति॑ वषट्कृते जुहुतो यज यजेति चतुर्थाष्टमयोः समानयमानावष्टमे⁴ ऽध्वर्युः सर्वग्ं
१ Thus Be H. T. Keś. ; ॰क्रामय्य F ; ॰क्रम्य T ; ॰क्रमैय्य B. २ Thus Be BHJT ; ॰कांक्षति F. ३ स्रुचाव् Be. ४ Thus B Be HF ( the last समानयद्यमानाव० ) ; समानयमानोष्टमे TJ. 18