बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 181, कुल 774 में से
संदर्भ में पढ़ेंस्रुचि चतुर्गृहीतं गृहीत्वा स्रुचा पञ्चमीं जुहोत्यापो देवी- र्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उर्वन्तरिक्षं बृहस्पतिर्नो हविषा वृधातु स्वाहेत्य॑परं चतुर्गृहीतं गृहीत्वाज्यस्य पूर्णाग्ं स्रुचमौद्ग्रहणं जुहोति विश्वे देवस्य नेतुर्मर्तो वृणीत सख्यम् । विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहेत्ये॑तत्तूर्णपात्रमन्तर्वेदि निनयत्य॑थाग्रेणाहवनीयं पर्यावृत्य यजमानाय प्रयच्छति कृष्णा- जिनं च कृष्णविषाणां च वासश्च मेखलां चौदुम्बरं दण्डं पञ्चममुष्णीषग्ं षष्ठम॑थ प्रतिप्रस्थाता पत्न्यै प्रयच्छति कुम्बं च कुरीरं च वासश्च योक्त्रं च शण्डं च॑ ॥ ४ ॥ प्रथमः ॥ अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोप- १० स्तृणाति॑ तस्य शुक्लकृष्णे संमृशति शुक्ले ऽङ्गुष्ठो भवति