बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 182, कुल 774 में से
संदर्भ में पढ़ें[ ६।५। ] बौधायनश्रौतसूत्रम् । १४१ ते गिरो वेष्टयामि श्रियै यशसे ब्रह्मवर्चसायेत्येतस्मिन्काले प्रतिप्रस्थाता पत्न्यै कुम्बकुररीरमध्यूहति तूष्णीम॑थास्यैषा कृष्ण- विषाणा त्रिवलिर्वा पञ्चवलिर्वा शाण्या रज्ज्वा परितृण्णा मण्डचरवद्विग्रथिता¹ तां यजमानाय प्रयच्छतीन्द्रस्य योनिर- ५ सीति॑ मा मा हिꣳसीरिति यजमानः प्रतिगृह्णाति॑ तां वसनस्यान्तमायाँ² दशायां बद्ध्वा तयान्तर्वेदि लोष्टमुद्धन्ति क्यै त्वा सुसस्याया इति॑ सुपिप्पलाभ्यस्त्वौषधीभ्य इति दक्षिणं गोदानं कण्डूयत॑ एतस्मिन्काले प्रतिप्रस्थाता पत्न्यै शङ्कुमावध्नात्येतेन कण्डूयस्वेत्य॑थास्मा ऊर्ध्वाग्रमौदुम्बरं दण्डं १० प्रयच्छति मुखेन संमितꣳ सूपस्था देवो वनस्पतिरित्यूर्ध्वो मा पाह्योदृच इति यजमानः प्रतिगृह्णात्य॑थैनं यज्ञस्यान्वारब्धं वाचयति स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्याꣳ स्वाहो- रोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इत्य॑थ मुष्टी³ करोति वाचं³ यच्छत्य॑थाहादौक्षितायं ब्राह्मणो ऽसावित्यंगोत्रो ऽमुष्य १५ पुत्रो ऽमुष्य पौत्रो ऽमुष्य नप्ता तमिन्द्रायेन्द्राग्निभ्यां वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यश्च सोमपेभ्यः १ The reading of these difficult words is not wholly certain; H reads as above; B: संडचरखद्विवाविप्र०; J: संठचरवडाविप्र०; T: मण्डलचर- वद्धाविप्र०; F: मडघरडितायाविप्र०; P: मंडचरवडितावाविप्र०; comp. the Bhāṣya (and Keś.): मण्डचरवत् लाङ्गलपाशवत् बद्धा, where बद्धा is the periphrase of विग्रथिता । २ अंतिमायां BJ. ३ Thus (without च) TJF; BH ins. च after वाचं and after मुष्टी, but comp. TS. VI. 1. 4. 3. 21