बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 214, कुल 774 में से
संदर्भ में पढ़ें[Handwritten: अग्निष्टोमः प्रातः सवनम्] Digitized by Madhuban Trust [ ६ । २६ । ] बौधायनश्रौतसूत्रम् । १६३
एतच्चमसैरासादयति ' ग्रावसु ग्रावाणमभ्यञ्जयत्यथ दक्षिणस्य हविर्धान- स्याग्रेणोपस्तम्भनं बर्हिर्मुष्टिमुपनिबध्नाति स्तोत्रेभ्यो ' ऽथ याचति स्फ्यमुदपात्रं चावालात्पुरीषꣳ सिकता इत्येतत्समादायाहैहि यजमानेत्याग्नीध्रं द्रुत्वा स्फ्येनोद्धृत्यावोक्ष्य चावालात्पुरीषꣳ ५ सिकता इति निवपति विभूरसि प्रवाहणो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीरिति ' तं परिमण्डलं धिष्णियं १ करोत्यथैनꣳ सिकताभिराश्लक्ष्णं करोत्यान्तः- सदसं धिष्ण्यान्निवपति होतुः प्रथमं वन्हिरसि हव्यवाहन इति ' श्वात्रो ऽसि प्रचेता इति दक्षिणतो मैत्रावरुणस्य ' तुथो १० ऽसि विश्ववेदा इत्युत्तरतो ब्राह्मणाच्छꣳसिन ' उशिगसि कवि- रित्युत्तरतः पोतुरङ्गारिरसि बम्भारिरित्युत्तरतो नेष्टुरवस्युरसि दुवस्वानित्युत्तरतो ऽच्छावाकस्याथ दक्षिणे वेद्यन्ते मार्जालीयं धिष्णियं निवपति शुन्ध्यूरसि मार्जालीय इति ' सर्व्वेषु रौद्रमनुवर्तयत्याग्नीध्रे ऽन्ततो निवपत्युदक्सꣳस्थाताया इत्यष्टा- १५ न्यवाप्सोदित्येताननुदिशति ' सम्राडसि कृशानुरित्याहवनीय- मुपतिष्ठते ' परिषद्यो ऽसि पवमान इत्यास्तावं २ प्रतक्वासि नभस्वानिति चावालमसंम