भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 231, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 231

२१० बौधायनश्रौतसूत्रम् । [ ७। ६, ७ । ] राज्ञो ऽयं वां मित्रावरुणेत्यनुद्रुत्योपयामगृहीतो ऽसि मित्रा- वरुणाभ्यां त्वा जुष्टं गृह्णामीति॑ बर्हिषो ऽन्तर्धाय पयसा श्रीणात्यपोद्धृत्य बर्हिषो दशापवित्रेण परिमृज्य सादयत्येष ते योनिर्ऋतायुभ्यां त्वेत्यथोपातीत्याश्विनपात्रग्ं शुक्रपात्रमादत्ते॑ तदेतद्वैल्कं वा पालाशं वा श्लक्ष्णं भवति॑ तेन गृह्णात्यतिपव- ५ मानस्य राज्ञो ऽयं वेनश्चोदयदित्यनुद्रुत्योपयामगृहीतो ऽसि षण्डाय त्वा जुष्टं गृह्णामीति॑ परिमृज्य सादयत्येष ते योनि- र्वीरतां पाहीत्यथादत्ते मन्थिपात्रं॑ तदेतद्वैकङ्कतग्ं श्लक्ष्णं भवति॑ तेन गृह्णात्यतिपवमानस्य राज्ञस्तं प्रत्नथेत्यनुद्रुत्योप- [L1