बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 232, कुल 774 में से
संदर्भ में पढ़ेंइत्युच्चैरथैनमभिवदत आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिमभि सवना पाहि विष्णुस्त्वां पातु विश्वं त्वं पाहीन्द्रियेणेति' परिमृज्य सादयत्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्युपब्दिमतो ऽत ऊर्ध्वं ग्रहान्गृह्णाति' चिद्गव्यस्य ५ रशिनो रुजन्त इति रुग्वत्यार्चा भ्रातृव्यतो गृह्णीयादिति ब्राह्मणमथादत्त उक्थ्यस्थालीं' तया गृह्णात्यतिपवमानस्य राज्ञ उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्कृत उक्थ्यायुवे यत्त इन्द्र बृहद्वयस्तस्मै त्वा विष्णवे त्वा जुष्टं गृह्णामीति' परिमृज्य सादयत्येष ते योनिरिन्द्राय त्वोक्थायुष इत्यादत्ते ध्रुव- १० स्थालीम्' स आह ये पूर्व्या द्वारा प्राप्सन्त' प्राञ्चस्ते निष्क्रामन्तु ये ऽपरया प्रत्यञ्चस्ते मा वो ऽभिपरिहारिषमिति' जघनेनाभिषोतृन्सोनेतृकानभिपरिहृत्योत्तरत उपयच्छति२ मूर्धानं दिवो अरतिं पृथिव्या इत्यनुद्रुत्योपयामगृहीतो ऽस्यग्नये त्वा वैश्वानराय जुष्टं गृह्णामीत्यथैनमभिवदते ध्रुवो ऽसि १५ ध्रुवचितिर्ध्रुवाणां ध्रुवतमो ऽच्युतानामच्युतचित्तम इत्यथैनमथा- वृत्तं३ प्रतिपर्याहृत्योत्तरस्य हविर्धानस्याक्षेणोपस्तम्भनमनुपोत्रे सादयत्येष ते योनिरग्नये त्वा वैश्वानरायेति' ध्रुवेण राजानं परिदधात्यथोपदर्भं द्रोणकलशे परिमृज्य पात्रं प्राञ्च द्रुपाननु-
१ Thus emended. All MSS. also P Bh., Mantramālā, Prayoga IO, Padārthanirv. have प्राप्यंन्ता, only T, Keś. प्राप्स्यन्तः । २ Thus PBTH Bh.; उपयच्य० F Keś. ३ अथैनं instead of अथैनम् T; अथैनमथावृत्तं P (pr. m.), अथैनमथा- P (sec. m).