बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 234, कुल 774 में से
संदर्भ में पढ़ेंरूपस्तरणमसि मिथुनस्य प्रजात्या इति वा तूष्णीं वाथोपाकरणं जपति वायुर्हिङ्कर्ताग्निः प्रस्तोता प्रजापतिः साम बृहस्पति- रुद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणं मयि दधतो ऽसुक्ष्मिति । ५ स एष त्रिवृद्बहिष्पवमानो भवति । तस्य पञ्चम्यां प्रस्तुतायां वाचयति श्येनो ऽसि गायत्रच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेत्यथ दशहोतारं व्याचष्टे । उद्गुते साम्नि संप्रेषमाहाग्नी- दग्नीन्विहर बर्हि स्तृणीहि पुरोडाशाञ् अलंकुरु प्रतिप्रस्थातः पशुरन्तिके ऽस्विति । यथासंप्रेषं तौ कुरुतो१ । ऽथाप उप- १० स्पृश्याहैहि यजमानेति । पूर्वया द्वारा हविर्धानं प्रपाद्य समक्तं राजानमुपतिष्ठते विष्णो त्वं नो अन्तम इत्येत्यादत्त आश्विन- पात्रं । तदेतद्द्व्यश्रि भवति । तस्मिन्गृह्णाति द्रोणकलशात्परि- प्लुना पात्रेण या वां कशेत्यनुद्रुत्योपयामगृहीतो ऽस्याश्विभ्यां त्वा जुष्टं गृह्णामीति । परिमृज्य सादयत्येष ते योनिर्माध्वीभ्यां १५ त्वेत्यथाप उपस्पृश्याहैहि यजमानेत्याहवनीयं द्रुत्वा सुचि चतुर्गृहीतं गृहीत्वा सप्तहोतारं मनसानुद्रुत्याहवनीये जुहो- त्यन्वारब्धे यजमाने स्वाहेत्यथावकाशैरुपत्सरति परिभूरग्निं परि- भूरिन्द्रमित्येतेनानुवाकेनाथ प्रचरण्यां नवकृत्वो गृह्णीते । ऽथैष आग्नीध्र आग्नीध्रीयाद्धिष्ण्यादनुपूर्वं २ धिष्णियेष्वङ्गारान्विहर- २० त्येत्य पुरस्तात्प्रत्यङ्ङासीनो विहृतान्धिष्ण्यान्व्याघारयति यथा- १ कुर्वंतो JF Keś. २ Thus JBHP ; ( Keś. अथानपूर्व ) ; आनुपूर्व्य the other MSS.