बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 242, कुल 774 में से
संदर्भ में पढ़ेंप्रोक्षति' द्वावप्रोक्षितौ भवतः' प्रोक्षिताभ्यामपिधायाप्रोक्षि- ताभ्यामुपयच्छतः' शुक्रमैवाध्वर्युरादत्ते' मन्थिनं प्रतिप्रस्थाता' ग्रहावादायोपनिष्क्रामतो' दक्षिणेनेदाध्वर्युर्दार्वाक्षं निन्र्यमाण उपनिष्क्रामत्युत्तरं प्रतिप्रस्थाता' तौ जघनेनोत्तरवेदिं ग्रहौ ५ संधत्त आयुः संधत्तं तन्मे जिन्वतं प्राणँ संधत्तं तं मे जिन्वत- मपानँ संधत्तं तं मे जिन्वतं व्यानँ संधत्तं तं मे जिन्वतं चक्षुः संधत्तं तन्मे जिन्वतँ श्रोत्रँ संधत्तं तन्मे जिन्वतमिति' षड्भिः संधाभिः संधाय व्युत्क्रामत' स्तुतो ऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्तु सुवीराः प्रजाः प्रजनयन्नरोहि शुक्रः १० शुक्रशोचिषेत्यध्वर्युर्दक्षिणेनोत्तरवेदिं परिक्रामति' स्तुतो ऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्तु सुप्रजाः प्रजाः प्रजनयन्नरीहि मन्थी मन्थिशोचिषेति प्रतिप्रस्थातोत्तरेणोत्तरवेदिं परिक्रा- मति' तौ पुरस्तात्प्रत्यञ्चावुत्तरवेदिमभिद्रुवत इन्द्रेण सयुजो वयँ सासह्वाम पृतन्यतः । घ्नन्तो वृत्राण्यप्रति ॥ यत्ते अग्ने तेजस्तेनाहं १५ तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहँ हरस्वी भूयासमित्य'थान्तरेण यूपं चाहवनीयं च ग्रहौ संधत्त आयु स्थ आयुर्मे धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञप- तये धत्तं प्राण स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं प्राणं यज्ञपतये धत्तमपान स्थो ऽपानं मे धत्तमपानं यज्ञाय धत्त- २० मपानं यज्ञपतये धत्तं व्यान स्थो व्यानं मे धत्तं व्यानं यज्ञाय धत्तं व्यानं यज्ञपतये धत्तं चक्षु स्थश्चक्षुर्मे धत्तं चक्षुर्यज्ञाय धत्तं चक्षुर्यज्ञपतये धत्तँ श्रोत्रँ स्थः श्रोत्रं मे धत्तँ श्रोत्रं यज्ञाय