बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 250, कुल 774 में से
संदर्भ में पढ़ेंद्विर्द्दिनैराशꣳसाननुप्रकम्पयन्त्यैतत्याचं नाराशꣳसा अन्वायन्त्यनु- सवनभक्ष इन्द्राग्निभ्यां पीतस्येति । होता चैवाध्वर्युश्चैतत्याचꣳ संभक्षयतो नराशꣳसपीतेन¹ नाराशꣳसान्नराशꣳसपीतस्य² सोम देव ते मतिविदः प्रातःसवनस्य गायत्रच्छन्दसः पितृ- पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति । होतृचमस- मेवैते चषः समुपहूय भक्षयन्ति । यथाचमसं चमसान्हिन् म इत्यात्मानं प्रत्यभिमृशन्त । आप्याययन्ति चमसानाप्यायस्व समेतु त इति । सीदन्ति नाराशꣳसा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोधो वैश्वदेवाय प्राङेत्य शुक्रपात्रमा- ददान आह्रोन्नेतर्यदेमं वैश्वदेवं ग्रहं गृह्णाम्यथोदञ्चꣳ राजानं पूतभृतमभि सं पवयताद्दशाभिर्द्रोणकलशं मृष्ट्वा न्युब्जादिति । स तथा करोति । स शुक्रपात्रेण वैश्वदेवं कलशाद्गृह्णात्योमास- श्चर्षणीधृत इत्यनुद्रुत्योपयामगृहीतो ऽसि विश्वेभ्यस्त्वा देवेभ्यो जुष्टं गृह्णामीति । परिमृज्य सादयत्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्येथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ् द्रुत्वा स्तोत्रमुपाकरोति । स्तुवते वैश्वदेवाय । होत्र एषोत्तमेति प्राङ्होतुः कालात्पराङावर्तते ऽध्वर्यु॑रभ्येनमाह्वयते होता । प्रत्याह्वयते ऽध्वर्युः । शꣳसति । प्रतिगृणाति । प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं वैश्वदेवं ग्रहमन्वञ्चन्ते नाराशꣳसान्नया- व्यावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति । वषट्कृतानु-
१ Thus PBH Bh. Keś.; न॑ारा- the other MSS. २ Thus, नराशꣳसपीतस्य PB Bh, Keś. Mantramālā.