बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 305, कुल 774 में से
संदर्भ में पढ़ेंमौदुम्बरीः समिधो लुङ्गप्रलवाश्चौद्विष्टानि खरेभ्यः सिकता इत्यत्र पूर्वाꣳ शान्तिमुपयन्ति नमो वाच इत्येत्याग्रेणाहवनीयं तृणानि सꣳस्तीर्य तदेतत्परिघर्म्यꣳ सर्वꣳ सह सꣳसादयन्त्यथ सम्राडासन्दीमत्र स्थूणां गोदोहनीमत्र छागाये शङ्कुमित्येतौ खरौ नानेव सतयोः समुपात्तैव सह सꣳसादयन्त्येतमुच्छिष्ट- ५ खरं १ परिकर्मी वाग्नीध्रो वा सते समुष्य दक्षिण्या द्वारोप- निर्हृत्य मार्जालीयदेशे निवपत्यथैतेनैव यथेतमेत्य निष्क्राम- यन्ति २ वृषलाञ्छ्वयन्ति पत्नीम् ' ह्वयन्ति होतारम् ' ह्वयन्ति ब्रह्माणम् ' ह्वयन्ति प्रतिप्रस्थातारम् ' ह्वयन्ति प्रस्तोतारम् ' ह्वयन्त्याग्नीध्रं ' परिश्रयन्ति द्वाराण्यथैतां पत्नीमुदग्दग्रेण वास- १० सान्तर्दधति ३ परिस्तृणन्ति ' दक्षिणत उपविशतो ब्रह्मा च यजमानश्चात्र पूर्वाꣳ शान्तिमुपयन्ति येषामनुपेता भवत्यथ४ गार्हपत्य आज्यं विलाय्योत्पुनात्येतस्मिन्काले प्रतिप्रस्थाताऽव- नीये शलाकामिश्रमादाय मुखदघ्ने धारयन्पुरस्तात्प्रत्यङ्मुख- स्तिष्ठति ' तमध्वर्युः पश्चात्प्राङ्मुखस्तिष्ठन्त्सुवाहुत्याभिजुहोति घर्म १५ या ते दिवि शुग्गा गायत्रे छन्दसि या ब्राह्मणे या हविर्धाने तां त एतेनावयजे स्वाहेति ' तमचैव प्राञ्चापरमादाय नाभिदघ्ने धारयन्पुरस्तात्प्रत्यङ्मुखस्तिष्ठति ' तमध्वर्युः पश्चात्प्राङ्मुखस्तिष्ठ- न्त्सुवाहुत्याभिजुहोति घर्म या ते ऽन्तरिक्षे शुग्गा त्रैष्टुभे
१ ऽथैनम्• HIP; ऽथैतद्• TF; ऽथैनद्• B. २ Thus PITHJ; निष्क्रामयंति BF. ३ Thus BT Bh. Keś. ; •दधाति IFHP. ४ Thus PIFHJ ; भवंत्त्य BT.