भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 309, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 309

२८८ बौधायनश्रौतसूत्रम् । [ ६ । १५, १६ । ] मधुमिश्रेण समज्याभ्यग्राभ्यां १ प्रतीचीनाग्रे सꣳस्पृष्टे सादयत्यथैते धवित्रे दध्ना मधुमिश्रेण समज्य जघनेन पृष्टी सꣳस्पृष्टे सादय- त्यथैता दशौदुम्बरीः समिधो दध्ना मधुमिश्रेण समज्य जघनेन धवित्रे प्रतीचीनाग्राः सꣳस्पृष्टा विस्तीर्णात्यथैतामाज्यस्थालीं दध्ना मधुमिश्रेण पूरयित्वा जघनेनाग्निꣳ सꣳस्पृष्टाꣳ सादय- ५ त्यथैतद्धवित्रं दध्ना मधुमिश्रेण समज्य तेनाज्यस्थालीमपिदधा- त्यथैते रौहिणकपाले दध्ना मधुमिश्रेण समज्य जघनेनाज्य- स्थालीꣳ सꣳस्पृष्टे सादयत्यथैतꣳ स्रुवं दध्ना मधुमिश्रेण पूरयित्वा जघनेनाज्यस्थालीमन्तरेण रौहिणकपाले प्रतीचीनबिलꣳ सꣳस्पृष्टꣳ सादयत्यथैतं कुशमयं वेदं विस्रस्य दध्ना मधुमिश्रेण १० समज्य जघनेनाज्यस्थालीं प्रतीचीनाग्रꣳ सꣳस्पृष्टं विस्तीर्णा- त्यैतामासन्दीं विस्रस्य दध्ना मधुमिश्रेण समज्याचैवोत्तरतः सꣳस्पृष्टाꣳ सादयत्यथैतां मृदमतिशिष्टां दध्ना मधुमिश्रेण समज्यान्तरेण सक्थिनी निवपति ॥ १५ ॥ घर्मैतत्ते ऽन्नमेतत्पुरीषं तेन वर्धस्व चा च प्यायस्व वर्धिषी- १५ महि च वयमा च प्यासिषीमहीत्यथैनꣳ सिकताभिरनुप्रकीर्य मुञ्जप्रलवैरनुविप्राच्य रौहिणपिष्टैरनुप्रकीर्य कृष्णाजिनेन प्राचीन- ग्रीवेणोत्तरलोम्ना प्रोर्णोत्यपि वाभितः प्रचरणीयं महावीरं परिचिनोत्यादित्यमण्ड लवदथैनमुपतिष्ठते ऽयं यः पुरुषरूपो ऽसि स न आस्से न तिष्ठसि । नोर्ध्वा न तिर्यग्विधां ते ऽनु २० विच्छितो ऽस्मि विधां मे ऽनु विहितो ऽसि यस्त्वमसि सो


१ Thus TB Bh. ; अधियग्राभ्यां J Keś. ; अधिया अग्राभ्यां PIF.