भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 311, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 311

त्यं चित्रमित्येत्याहवनीयमुपतिष्ठन्त¹ इममू षु त्वमस्मभ्यं सनिं गायत्रं नवीयांसमग्ने देवेषु प्रवोच इत्येत्याग्नीध्रदेशं² द्रुत्वा³ग्नीध्रदेश उत्तराङ् क्रान्तिमुपयन्ति वां नो वातः पवतां मातरिश्वेतिति' ॥ १६ ॥ चतुर्थः ॥ अथातो घर्मप्रायश्चित्तानि व्याख्यास्यामो ' ऽथ यदि प्रवर्ग्यम- ५ प्रवृत्तमदित्यो⁴ ऽभ्यस्तमियाद्गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भू- र्भुवः सुवरित्युपसदा प्रचर्य श्श्वो भूते प्रवर्ग्येण प्रचरेदथ यदि प्रवर्ग्यं प्रवृत्तमदित्यो⁴ ऽभ्यस्तमियाद्गार्हपत्ये तिस्रः स्रुवाहुती- र्जुहुयाद्भूभुर्वः सुवरित्य'थापरस्यां द्वारि सूत्रेण हिरण्यं प्रग्रथ्य प्रचरेदथ यदि प्रवृत्तः⁵ प्रपतेद्गार्हपत्ये⁵ तिस्रः स्रुवाहुतीर्जुहुया- १० द्भूभुर्वः सुवरित्यथैनमुच्छ्रयत्यूर्ध्व ऊ षु ण ऊतय ऊर्ध्वो नः पाह्यं- हस इति द्वाभ्यामथैनमाज्येन पूरयत्यञ्जन्ति यं प्रथयन्तो न विप्रा इत्यथ यदि विधुर्वा प्रद्रो वा जायते ऽश्मचूर्णानि छागापयसि संप्रकीर्य तैः प्रत्युच्योल्मुकेनाभितपति विधुं दद्राणं यदृते चिदभिश्रिष इति द्वाभ्याम्' सं हि हैव रोहति ' यद्यु वै सर्वश १५ एव भिद्यत एतान्येव कपालान्यवाञ्छनं पिष्ट्वा यैषा मृत्प्राय- श्चित्ताय परिगेते तया संसृज्य कृत्वा पक्त्वाच्छृद्य निदध्यात्ये- थान्यं प्रचरणीयं महावीरं प्रवृणक्त्यथ यदि प्रमत्ता अतिपरि- १ •तिष्ठत PHIT; the other MSS., also Keś., have the plural. २ Thus FHJI; चाग्नीध्रं TBP. ३ Thus PJF; हुत्वा B; गत्वा ITH. ४ Thus all; read •प्रवृक्त• and प्रवृक्तः (?) ५ Thus B; प्रपदेत गार्ह• TBh.; प्रपतैतगा, I; प्रवर्तेतगा• HJ; प्रवृक्त P.