भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 343, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 343

यदग्ने यानि कानि च यदत्त्युपजिह्निका रात्रिञ्चराचिम- प्रयावं नाभा पृथिव्या याः सेना अभीवरीरित्यूचेन पञ्चर्चेन राक्षोध्नेनोपतिष्ठते कृणुष्व पाजः प्रसितिं न पृथ्वीमित्यथ तिस्रो नानावृक्ष्याः समिधो ऽभ्यज्यादधाति दंष्ट्राभ्यां मलिम्लूनित्य- भ्यर्च्य ये जनेषु मलिम्लव इति वैकङ्कतीं यो ऽस्मभ्यमरा- तीयादिति शमीमयीमथ संस्रितं से ब्रह्मद्वेषां वाङ्ग अति- रमित्युत्तमे औदुम्बरी वाचयन्नेवाभ्यादधात्यथ कृष्णाजिने यजमानं वाचयति ' मुष्टी चैव न करोति वाचं च न यच्छ- त्यैतामासन्दीं युक्तशिक्यपात्रां जघनेनाहवनीयं निदधाति ' तस्यामिण्ड्वाभ्यां परिगृह्योख्यमासादयति ॥ १४ ॥ मातेव पुत्रं पृथिवी पुरीष्यमग्निं स्वे योनौ बिभर्तूखा । तां विश्वैर्देवैऋतुभिः संविदानः प्रजापतिर्विश्वकर्मा युनक्ती- त्यासीन उत्तरनिर्बाधᳵ रुक्मं प्रतिमुञ्चते दृशानो रुक्म इत्यथ शिक्यपात्रं प्रतिमुञ्चते विश्वा रूपाणि प्रतिमुञ्चते कवि- र्नक्तोषासेति द्वाभ्यां ' तूष्णीं कृष्णाजिनमुत्तरमथैनमवेक्षते सुपर्णो ऽसि गरुत्मान्त्रिवृत्ते शिरो गायत्रं चक्षु स्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं¹ पुच्छं छन्दांस्यङ्गानि धिष्ण्याः शफा यजूंषि नामेत्यथैनमुद्गृह्णाति सुपर्णो ऽसि गरुत्मान्दिवं गच्छ सुवः पतेति ' पुरस्तादेवास्थैते


१ यज्ञायज्ञीयं Tr H ; M abbreviates.