बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 364, कुल 774 में से
संदर्भ में पढ़ेंअग्निचयनम् Digitized by Madhuban Trust [ १० । ३५, ३६ । ] बौधायनश्रौतसूत्रम् । ३३ देवंतं कृत्वा सूददोहसः करोत्यथापानभृत उपदधाति प्राची दिगां वसन्त ऋतूनामग्निर्देवता ब्रह्म द्रविणं त्रिवृत्स्तोमः स उ पञ्चदशवर्त्तनिस्त्र्यविर्वयः कृतमयानां पुरोवातो वातः सानग ऋषिरिति । वाचयति पितरः पितामहा इति । दक्षिणेन ५ प्राणभृतो दश प्रतीचौरायातयति स्वयमातृण्णामभि दक्षिणा दिगामिति । जघनेन प्राणभृतो दशोदीचीरायातयति स्वय- मातृण्णामभि प्रतीची दिगामित्युत्तरेण प्राणभृतो दश प्राची- रायातयति१ स्वयमातृण्णामभ्युदीची दिगामित्यग्रेण प्राणभृतो दश दक्षिणा आयातयति स्वयमातृण्णामभ्यूर्ध्वा दिगामिति । १० बाह्येन प्राणभृतो दशभिरुपरिष्टादपमलैः परिचिनोति । विषू- चीरुपदधातीति ब्राह्मणमपानभृद्भिस्स्थितिरायते' । तयादेवंतं कृत्वा सूददोहसः करोत्याग्निᳲ सर्वतोमुखं चिनुते२' ॥ ३५ ॥ गायत्रीं पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मध्ये३ । तयादेवंतं कृत्वा सूददोहसः १५ करोत्यथाग्नेरङ्गान्युपदधाति प्राच्या त्वा दिशा सादयामि गायत्रेण छन्दसाग्निना देवतयाग्नेः शीर्ष्णोऽसि शिर उपदधामि दक्षिणया त्वा दिशा सादयामि प्रतीच्या त्वा दिशा सादया- म्युदीच्या त्वा दिशा सादयाम्यूर्ध्वया त्वा दिशा सादयामि पाङ्क्तेन छन्दसेति । तयादेवंतं कृत्वा सूददोहसः करोत्यथोत्त- १ Thus Tr HBU Ms ; प्रतीचौर० M Be. २ Thus Tr Be BU Ms ; चिनोति MH ३ मध्य इति M. 5 CC-0. Public Domain. Vipin Kumar Collection, Deoband