बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 369, कुल 774 में से
संदर्भ में पढ़ें३८ बौधायनश्रौतसूत्रम् । [ १० । ३६, ४० । ] न्वारोहं वाचयत्यन्तरिक्षमाक्रमिषं प्रजा मा मा हासीदित्य॑परे बिले हिरण्येष्टकामुपदधाति ज्योतिरसि ज्योतिर्मे यच्छान्त- रिक्षं यच्छान्तरिक्षान्मा पाहीति॑ तां जघनेन प्रक्रमवेलायां मण्डलेष्टकामुपदधात्यधिद्यौरन्तरिक्षं ब्रह्मणा विष्टेति॑ दक्षि- णतो रेतःसिचमुपदधात्यन्तरिक्ष ँ रेतःसिक्तन्मे रेतो दधातु ५ तन्मे रेतः प्रजनयत्विति मनसैव॑ तयादेवतं कृत्वा सूददोहसः करोति॑ ॥ ३६ ॥ अथैता दश स्कन्ध्याः प्राचीरायातयति चतस्र ऋतव्याः सम्राजं च विश्वज्योतिषं च द्वे सयुजौ द्वे संयान्यावृतव्या उप- दधाति नभश्च नभस्यश्चेत्येकामनूपदधात्यग्नेर्योनिरसीतौष- १० ध्योर्जश्चेत्येकामनूपदधात्यग्नेर्योनिरसीति सम्राजं च विश्व- ज्योतिषं च सम्राड् ज्योतिर्धारयद्विश्वकर्मा त्वा सादयत्वित्यु- त्तरांमथ सयुजावुपदधाति वर्चसा त्वा सयुजा युजा युन- ज्युक्यैभिस्त्वा सयुजा युजा युनज्मीत्य॑थ संयान्यावुपदधाति देवानां वायोयान्यस्यन्तरिक्षस्य यान्यसीति॑ तयादेवतं कृत्वा १५ सूददोहसः करोत्य॑थ दिश्या उपदधाति राज्ञ्यसि प्राची दिगिति पञ्चैकां दिक्केकां मध्ये॑ तयादेवतं कृत्वा सूददोहसः करोत्य॑थ प्राणभृत उपदधात्यायुर्मे पाहि प्राणं मे पाहीति दश पुरस्तात्प्राचीस्तोमां ज्योतिष्मतोमुत्तमामुपदधाति॑ तया- देवतं कृत्वा सूददोहसः करोत्य॑थ बृहतीरुपदधाति मा २० छन्द इति द्वादश दक्षिणतः पृथिवी छन्द इति द्वादश पश्चादग्निर्देवतेति द्वादशोत्तरतस्तयादेवतं कृत्वा सूददोहसः