भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 380, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 380

[ १० । ४८ । ] बौधायनश्रौतसूत्रम् । ४६ वृत्य गुल्फदघ्ने धारयन्नमो रुद्रेभ्यो ये पृथिव्यामित्येतद्यजमानं वाचयति । नाभिदघ्ने धारयन्नमो रुद्रेभ्यो ये ऽन्तरिक्ष इत्येत- द्यजमानं वाचयति । ग्रीवदघ्ने धारयन्नमो रुद्रेभ्यो ये दिवी- त्येतद्यजमानं वाचयत्यथैतदर्कपर्णं यं द्वेष्टि तस्य संचरे पशूनां न्यस्यति । यद्यु वै न द्वेष्याखवटे न्यस्यत्यथैतं गावीधुकं चरुं चरमायामिष्टकायां निदधाति यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमो अस्त्वित्यथैतत्त्रिषृधन्वं याचति । तेनोत्तरे श्रोण्यन्ते तिष्ठन्नुप- तिष्ठते ऽपि वानुपरिक्रामं यत्ते रुद्र पुरो धनुस्तद्वातो अनु- वातु ते तस्मै ते रुद्र संवत्सरेण नमस्करोमि यत्त रुद्र दक्षिणा धनुर्यत्ते रुद्र पश्चाद्धनुर्यत्ते रुद्रोत्तराद्धनुर्यत्ते रुद्रोपरि धनु- रित्यथैनदयाचितं ब्राह्मणाय ददात्याथैष उदकुम्भ उत्तरे श्रोण्यन्ते ऽश्मना संस्पृष्टः शेते । स यो बलवाꣳस्तमाहाने- नोदकुम्भेन संततया धारया त्रिः प्रदक्षिणं परिषिञ्चन्परी- हीति । स तथा करोति । परिषिच्यमाने यजमानं वाचय- त्यप्मन्नूर्जं पर्वते शिश्रियाणां वाते पर्जन्ये वरुणस्य शुष्मे । अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि संभृतां तां न इषमूर्जं धत्त मरुतः सꣳरराणा इत्यथैतं कुम्भमश्मना संस्पृष्टꣳ सादयत्य- प्मꣳस्ते शुद्मं ते शुमृच्छतु यं द्विष्म इति । निधाय कुम्भं १ Thus M Tr BU (sec. m.) Ms Keś. ; ग्रीवा० Be U. (pr. m.). २ Thus Bhav. (one Ms.) and Ms. ; श्मानं सस्पृष्टन् M ; संसृष्टः Tr Be BU Bhav. (another Ms.) संसृषः H. 7