बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 443, कुल 774 में से
संदर्भ में पढ़ेंहिरण्यं ददाति॑ ग्राम्यान्यास उदवसाय वसति॑ सारस्वतं चरुं॑ वत्सतरीं ददाति॑ द्वितीये ग्राम्यान्यास उदवसाय वसति॑ सावित्रं द्वादशकपालमुपध्वस्तं ददाति॑ तृतीये ग्राम्यान्यास उदवसाय वसति॑ पौष्णं चरु॒ं श्यामं ददाति॑ चतुर्थे ग्राम्यान्यास उदवसाय वसति॑ बार्हस्पत्यं चरु॒ं ५ शितिपृष्ठं ददाति॑ पञ्चमे ग्राम्यान्यास उदवसाय वसत्यैन्द्र- मेकादशकपालमृषभं ददाति॑ षष्ठे ग्राम्यान्यास उदवसाय वसति॑ वारुणं दशकपालं॑ महानिरष्टं ददात्य॑थ सप्तमे ऽष्टकालामध्यवस्यत्यैतदेवाहर्र्दीक्षते¹॑ ऽथ वै भवति सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति पुण्डरिस्रजं प्रयच्छतीत्येन॑ १० तीर्थादानी॑य पवयित्वा पुण्डरिस्रजिनमुदानी॑य दौक्षणीया- मिष्टिं निर्वपति॑ तस्याꣳ सꣳस्थितायां मुष्टी चैव न करोति वाचं च न यच्छति²॑ निदधत्यस्मा एतद्धविरुच्छिष्टं व्रतभा- जनम॑थ प्रायणीयामिष्टिं निर्वपति॑ हविष्कृता वाचं विसृ- जते॑ ऽथास्मा एतद्धविरुच्छिष्टं प्रयच्छन्ति॑ व्रतभाजनम॑थ प्राय- १५ णीयेन चरति॑ प्रायणीयेन चरित्वा पदेन चरति॑ पदेन चरित्वा दशभिः षाड्वैरवत्सतरै राजानं क्रीत्वोद्वातिथ्यं निर्वपत्य॑तिथ्येन प्रचर्य पुरस्तादुपसदाꣳ सौम्यं चरुं॑ बभ्रुं ददात्य॑थ मध्यमे उपमदावन्तरेण त्वाष्ट्रमष्टाकपाल॒ꣳ॑ शुण्ठं ददात्य॑थोपरिष्टादुपसदां वैष्णवं चिकपालं॑ वामनं ददात्य॑- २०
१ दीक्षते Be BU ; दीक्षंते M ; दीक्ष्यंते T Be 11. २ •यच्छति M Be 11 T ; •यक्षति Be BU.