बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 444, कुल 774 में से
संदर्भ में पढ़ें[ १२ । १७, १८ । ] बौधायनश्रौतसूत्रम् । ११३ थाहवनीयं प्रणयत्याहवनीयं प्रणीय सदोहविर्धाने संमिनोति ' सदोहविर्धाने संमित्याग्नीषोमौ प्रणयत्यग्नीषोमौ प्रणीय यूपस्यावृता यूपमुच्छ्रयति ' खर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरोति ' तस्य प्रसिद्धं वपया चरित्वा सारस्वतीर्वस- ५ तीवरीर्गृह्णात्यथ पशुपुरोडाशं निर्वपत्यैडान्तः पशुपुरोडाशः संतिष्ठते ' पत्नीसंयाजान्तः पशुर्हृदयशूलान्त इत्येके ' अथ वसतीवरीः परिहृत्य पयांसि विशिष्योपवसन्त्येथातो महारात्र एव बुध्यन्ते ' प्रातराज्यानि गृह्णीत्वा राजानमुपावहृत्य प्रात- रनुवाकमुपाकरोति ' परिहिते प्रातरनुवाके ऽपो ऽच्छैत्यङ्गिरु- १० दैति¹ ॥ १७ ॥ अग्निष्टोमं क्रतुमुपैति ' प्रसिद्धो ऽभिषवः ' प्रसिद्धं ग्रहा गृह्यन्ते ' समानं कर्माश्विनाद्गृह्णात्याश्विनं ग्रहं² गृह्णीत्वा द्वे रशने आदाय यूपमभ्यैति³ ' खर्वन्तं यूपमुत्सृज्याग्नेयं पशुमुपा- करोति ' तस्य प्राजापत्यस्तूपर उपालम्भ्यो भवति ' तयोः १५ प्रसिद्धं वपाभ्यां चरित्वा प्रसर्पन्ति प्रातःसवनाय ' पूर्वस्यां द्वारि⁴ सूतग्रामण्यावुपतिष्ठतो⁵ ऽपरस्यां क्षत्तसंग्रहीतारौ ' प्रसर्पतः पृच्छतः का ते माता का ते⁶ मातामहीति ' स य १ ॰दैति MT Be 11 ; ॰देति Be BU. २ om. MT Be 11. ३ ॰भ्येति M Be BU ; ॰श्येति T Be 11. ४ दिग्भि M. ५ ॰वुपतिष्ठतो B Be U ; ॰वुपविशतो M ; ॰वुपविश्य T Be 11. ६ om. Be BU. 15