बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 493, कुल 774 में से
संदर्भ में पढ़ेंइति ब्राह्मणमथ वै भवति यो वै पवमानस्य संततिं वेद सर्वमायुरेति ' न पुरायुषः प्रमीयते ' पशुमान्भवति ' विन्दते प्रजां ' पवमानस्य ग्रहा गृह्यन्ते ऽथ वा अस्यैते ऽगृह्णीता ' द्रोणकलश आधवनीयः पूतभृत्तान्यदगृह्णीत्वो- पाकुर्यात्पवमानं विच्छिन्द्यात्तं विच्छिद्यमानमध्वर्योः प्राणो ५ ऽनु विच्छिद्येतोपयामगृहीतो ऽसि प्रजापतये त्वेति द्रोण- कलशमभिमृशेदिति ' स प्रजापतये त्वेति द्रोणकलशमभिमृशती- न्द्राय त्वेत्याधवनीयं ' विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतं ' पवमानमेव तत्संतनोति ' सर्वमायुरेति ' न पुरायुषः प्रमी- यते ' पशुमान्भवति ' विन्दते प्रजामिति ब्राह्मणमथ वै १० भवति त्रीणि वाव सवनान्यथ तृतीयग्ं सवनमवलुम्पन्त्यग्ंशु कुर्वन्त ' उपाग्ंशुग्ं हुत्वोपाग्ंशुपात्रे ऽग्ंशुमवास्य तं तृतीय- सवने ऽपिसृज्याभिषुणुयादिति ' स¹ य² एवैष² उपाग्ंशुपात्रे¹ ऽग्ंशुः¹ प्रास्तो भवति तं माध्यंदिने य ऋजीषे ऽपिसृज्या- भिषुणोति ' यदाप्याययति तेनाग्ंशुमद्यदभिषुणोति तेन- १५ र्जीषि ' सर्वाण्येव तत्सवनान्यग्ंशुमन्ति शुक्रवन्ति समावद्वी- र्याणि करोतीति ब्राह्मणम् ' ॥ ६ ॥ अथातो दीर्णप्रवृत्तानामेव मीमाग्ंसा ' द्रोणकलशे दीर्णे वा प्रवृत्ते वा पात्र्यां चतुर्गृहीतं गृहीत्वाऽहवनीये जुहोत्यन्वारब्धे यजमाने विधुं दद्राणग्ं समने बहूनां युवानग्ं सन्तं पलितो २०
१ Thus M ; स एवैष etc. G ; स वैष उपाग्ंशुपात्रेऽग्ंशुः BU, स एवैष उपाग्ंशुपात्रेऽग्ंशुः Be.