बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 494, कुल 774 में से
संदर्भ में पढ़ेंऔपानुवाक्यम् Digitized by Madhuban Trust [ १४ । ७ ] बौधायनश्रौतसूत्रम् । १६३ जगार । देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान खाहैत्य॑थ होतृचमसे वसतीवरीभ्यो ऽध्यपो निःषिच्य तस्य स्वधाꣳ संभरति भूतिः सोमेन वर्धतां तस्य मेद्यस्य वीतस्य द्रविणमागभ्यादिति॑ स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवन- ५ पतये स्वाहा भूतानां पतये स्वाहेति॑ । स यद्यह॑¹ दीर्णे भवति प्रतिलिम्पत्येनं॑ यद्यु वै प्रवृत्त उच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादंशुं प्रस्क- न्दयत्याधवनीये दीर्णे वा प्रवृत्ते वा तथैव पात्र्यां चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने द्वौ समुद्रौ १० विततावजूर्या पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अतियन्त्यन्यमपश्यन्तः सेतुनातियन्त्यन्यꣳ स्वाहेत्य॑थ होतृच- मसे वसतीवरीभ्यो ऽध्यपो निःषिच्य तस्य तथैव स्वधाꣳ संभरति भूतिः सोमेन वर्धतां तस्य मेद्यस्य वीतस्य द्रविण- मागभ्यादिति॑ स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवन- १५ पतये स्वाहा भूतानां पतये स्वाहेति॑ । स यद्यह॑¹ दीर्णे भवति प्रतिलिम्पत्येनं॑ यद्यु वै प्रवृत्त उच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाशुं प्रस्कन्दयति॑ पूतभृति दीर्णे वा प्रवृत्ते वा तथैव पात्र्यां चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने द्वे द्रधसी १ Thus here and infra ( 163. 15, 164. 6 ) M ; also Be at these last mentioned passages ; यदि the other MSS. and Be, here, but infra यद्युह । २ Thus here and infra M, the other MSS. every time the plural.