बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 505, कुल 774 में से
संदर्भ में पढ़ेंदेव सोम गायत्रेण च्छन्दसाग्नेः प्रियं पाथो ऽपीहि वशो त्वं देव सोम त्रैष्टुभेन च्छन्दसेन्द्रस्य प्रियं पाथो ऽपीह्यस्मत्सखा त्वं देव सोम जागतेन च्छन्दसा विश्वेषां देवानां प्रियं पाथो ऽपीहीत्ये॑वाह प्रतिप्रस्थात॑रुदकंसेन वा१ मोदचमसेन१ वा जघनेनाहवनीयं प्रत्युपलम्बस्वेति॑ । स तथा करोत्य॑थैत- ५ द्धिरण्मद्भिः प्रक्षाल्य मध्यमायामङ्गुलौ बध्नीते नामि- कायां वा प्रग्रथ्यात्य॑थ सकृदभिषुतस्य राज्ञो ऽंशुं गृह्णाति वामदेव्यमिति साम मनसा गायमानो ऽनवानं प्रजापतये॑ त्वेति२ गृह्णाति२ प्रजापतये त्वेति जुहोत्य॑थ हिरण्यमभिव्यनित्य३ नः प्राण एतु परावत आन्तरिक्षाद्दिवस्परि । आयुः पृथिव्या १० ऽध्यमृ॑तमसि प्राणाय त्वेत्य॑न्तर्वेद्य॒ङ्घ्रीमार्ज॑यत इन्द्राग्नी मे वर्चः कृणुतां वर्चः सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना ॥ दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् । परि विश्वानि काव्या नेमिश्चक्रमिवाभवदित्य॑ध्वर्योरेतद्धिरण्यं भवति४ । ब्राह्मणमुत्तरम् ॥ १२ ॥ पञ्चमः ॥ १५ अथातः पृश्नीनामेव ग्रहणम्॑ । संतप्तान्॑ राजानं दशधा व्यूह्याभिमृशति वायुरसि प्राणो नामेति दशभिर्दश॑ । ते वा
१ Thus M; वोदचम० all the other MSS., omitting मा । २ om. Be. ३ Thus MUG; ०व्यानित्या B Be; cp. T. S. III. 3. 4. 3. ४ All the MSS. exc. M ins. इति ।