बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 523, कुल 774 में से
संदर्भ में पढ़ेंDigitized by Madhuban Trust १६० बौधायनश्रौतसूत्रम् । [ १४ । २१, २२ । ] स्वाहेत्य॑थाभिचरन्बभ्रुवे बभ्रुवत्सायै कार्ष्मर्यमयेन पात्रेण पयो जुहोति सद्यः शूर्ष सवितर्विश्वचर्षण एतेभिः सोम नामभि- र्विधेम ते तेभिः सोम नामभिर्विधेम ते स्वाहेति' साच्चादस्य हृदयं भित्त्वान्त्राणि परिकासयातै' स्तृणुते हैव² तं॑ भ्रातृव्य- म॑थ येनास्यर्त्विजाᳵ स्पर्धा स्यात्तमाह मास्य चमसमनुप्रसृप- ५ तादभिमर्शनं³ करिष्यामीति' तस्यैतेनैव मन्त्रेण चमसँ जुहु- यान्मूर्च्छो ऽवाङ्वा⁴ राजातिपवत्' उक्तं पात्नीवतस्य ⁵श्रयण- मु॑क्तमादित्यग्रहस्योद्धननमुक्तं⁶ प्रायणीयस्य स्रुवाहुतिरुक्तोदय- नीयस्योक्तं यूपस्योपस्थानम्' ॥ २१ ॥ नवमः ॥ उक्तानि पत्नीसंयाज्या॑न्येवमेवैताः स्रुचो यथैतद्ब्राह्मणमुक्तो १० दधिग्रहो' ऽथ वै भवत्याज्यग्रहं गृह्णीयात्तेजस्कामस्येति' वर्हिषो ऽन्तर्धायाज्यग्रहं गृह्णाति' सोमग्रहं गृह्णीयाद्ब्रह्मवर्चस- कामस्येत्य॑ँशूनुपसंगृह्य सोमग्रहं गृह्णात्य॑थैतं महाव्रतीये ऽह्नि प्राजापत्यमतिग्राह्यं गृह्णाति ले क्रतुमपिवृञ्जन्ति विश्व इत्यनु- १ Thus M ; •कामयातैच Be ; •क्रासयातोह B ; •कासथानैच U ; •काम- यातैश्च G (pr. m.), •क्रासयातैह G (sec. m.). परिक्रासयातेर्निष्क्रामति (var. निष्कामयति ) Bhav. २ Thus M Bhav. ; इवैतं The other MSS. ३ Thus M ; •नुप्रसृप्राद• BUG ; •नुप्रसृत्याद• Be. ४ Thus M ; i.s.o. ऽवाङ्वा राजाति० Be U ; वारादाष्टाति० ; G : वारां- द्वाष्टाति ; B : वारोद्वाष्टाति० । ५ Thus (श्रयण०) M Be (cp. viii. 14 श्रोणाति ) ; अपण० BU ; श्रमण, G. ६ Corrected (उद्धनन०) according to viii. 9 s.f. (उद्धन्ति) ; उदारनन० MUGB ; Be wholly corr. CC-0. Public Domain. Vipin Kumar Collection, Deoband