बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 549, कुल 774 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line Markdown transcription of the page:
तेषां पशुपुरोडाशाननुवर्तन्ते महाहवीꣳषि । महाह- वीꣳषि वैवैषां पशुपुरोडाशा भवन्ति । ताननुवर्तते मध्यमा सावित्री । प्रसिद्धाः पशवः संतिष्ठन्ते । ऽथापराह्ने पितृयज्ञेन चरति । पितृयज्ञेन चरित्वा त्र्यम्बकैश्चरति । त्र्यम्बकैश्चरि- त्वादित्यं पशुमालभते । तस्य पशुपुरोडाशमनुवर्तत आदित्यꣳ ५ हविरादित्यो वैवास्य पशुपुरोडाशो भवति । तमनुवर्तत उत्तमा सावित्री । प्रसिद्धः पशुः संतिष्ठते । ऽथ पौर्णमास- वैमृधाभ्यामिष्ट्वा प्रसिद्धं निवर्तयते । ऽथ श्वो भूते सावित्रीभिरेव प्रतिपद्यते । स एवमेव सावित्रीभिरहरहर्यजमानो ऽर्धचतुर्थान्मास एति काममिष्ट्या कामं पशुबन्धेन कामं व्रीह्याग्रयणेनाथा