बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 569, कुल 774 में से
संदर्भ में पढ़ेंत्यमश्वं विशमतेत्या३मिति१ ' नाश्वस्य वपा भवति ' चन्द्रमिव मेदः परिवृक्तम्२ साश्वस्य वपा ' वपा३ तूपरस्यैव गोमृगस्य ' कालायसैः पर्यङ्गाणां लोहितायसैरितरेषां सुवर्णैर्दक्षिणेषाम् रजतैरुत्तरेषाम् ' ॥ ३० ॥ अश्वस्यैवाध्वर्युर्वपया प्रथमया प्रतिपद्यते ' ऽनूचीरितरा ५ आहरन्त्यश्वस्यैव वपायै प्रतितप्यमानायै बर्हिषो ऽग्रमुपास्य- त्युपेतरा यच्छन्त्युत्तरतो ऽश्वस्य तूपरस्य गोमृगस्येति वपाः श्रपयन्ति दक्षिणत इतरेषां पशूनामश्वस्यैव वपां स्रुवाहुत्या- भिजुहोत्युपेतरा यच्छन्त्य ४ स्वाहाकृतिप्रैषेण चरित्वा सꣳस्रा- वेण पृषदाज्यमभिघार्याश्वस्यैव वपामभिघारयत्युपेतरा यच्छ- १० न्त्यथ पुरस्तात्स्वाहाकृतिः४ स्रुवाहुतिं हुत्वा सुवर्णेन महि- मानं जुहोति तस्य ते द्यौर्महिमेत्यथोपोस्तीर्य द्विः स्रुवेणाश्व- स्यैव५ वपाꣳ समवलुम्प्याह प्रजापतय इत्युपाꣳशु हव्यस्य छागस्योक्थस्य वपानां मेदसो ऽवदीयमानस्यानुब्रूहीत्युच्चैर्यावतीः६ स्रुक्संभवत्येतेतराः पात्र्या वेडसूनेन वोपोद्यच्छन्ते ' ऽद्भिरभि- १५ १ Thus (without, however, the pluti sign) M ; ०तमृष्ठपिनष्टि इत्य- मश्वं विशसस्वे इत्यामिति Be, and thus also BU (but र्श्व i.s.o. इत्य) । २ ०वृक्तं MSS. exc. M. ३ वपां M. ४...४ left out in all the MSS. exc. M. ५ एव om. M. ६ वदीयमानानामवु० M, cp. supra xi. 5 (p. 70, 11).— यावतो M, यावति the other MSS. cf. supra l.c.